________________
षष्ठोऽध्यायः।
४२९
दायादा भ्रात्रादयः । ते यथाऽविभाज्यं वस्तु रैकणिकादिकं विभक्तुमशक्यं सक्रोधमिथः स्पर्धासंरब्धाः सन्तः परमं खण्डं खण्डं कृत्वा गृह्णन्ति तथा त्वदीयमेतच्छरीरं निष्पाद्य यदि बाह्यत्वचा स्रष्टा नाच्छादयिष्यत्तदा गृध्रादिभिः सक्रोधमिथःस्पर्धासंरब्धैः परमं खण्डं खण्डं कृत्वा अग्रहीष्यतेत्यर्थः । तत् तस्मादखिलत्रैलोक्यतीर्थ कुरु सकलजगतां विशुद्यङ्गं विधेहि त्वम् । किं तत् ? एतदङ्गम् । कीदृशम् ? स्वस्थित्यैकपवित्रं स्वस्थित्या आत्म. स्थित्या एकया अद्वितीयया पवित्रं पूतम् । सर्वात्मना अपवित्रमप्येतत्त्वयैव वसता पवित्रं कृतमित्यर्थः । किं कुर्वन् ? नयन प्रापयन् । किं तत् ? एतद. ङ्गम् । किम् ? अग्रेसरत्वं पुरोगत्वं प्राधान्यम् । क्व ? संशुद्धनिजात्मदर्शनविधौ । संशुद्धश्चासौ निजात्मा च । तस्य दर्शनं साक्षात्कारः। तस्य विधिविधानं करणम् । परमार्थनिर्मले स्वात्मनि साक्षात्करणीये मनुष्यशरीरस्याग्रकारणत्वादेवमुच्यते । यत्सूत्रम्
"उत्तमसंहननस्यैकाग्रचिन्तानिरोधो ध्यानमान्तर्मुहूतात्" इति । एवं भावयन्निविण्णोऽशरीरत्वाय यतते ॥ इत्यशुचित्वानुप्रेक्षा ।
संप्रत्यास्रवमनुप्रेक्षितुं तद्दोषांश्चिन्तयन्नाहयुक्त चित्तप्रसत्त्या प्रविशति सुकृतं तद्भविन्यत्र योग,द्वारेणाहत्य बद्धः कनकनिगडवद्येन शर्माभिमाने । मूर्छन् शोच्यः सतां स्यादतिचिरमयमेत्यात्तसंक्लेशभावे, यत्त्वंहस्तेन लोहान्दुकवदवसितच्छिन्नमर्मेव ताम्येत् ॥ ७० ॥
प्रविशति । किं तत् ? सुकृतं सद्वेद्यशुभायुर्नामगोत्रलक्षण-पुण्यकर्मयोग्यपुद्गलद्रव्यम् । क ? अत्र एतस्मिन् भविनि संसारिणि जीवे । केन ? योगद्वारेण कायवाङ्मनःकर्ममुखेन । किंविशिष्टे ? युक्त समाहिते परिणते । कया ? चित्तप्रसत्त्या प्रशस्तरागानुकम्पादिपरिणामेण सम्यक्त्वाद्यनुरञ्जितजीवप्रदेशवर्तिकर्मस्कन्धान् पुण्यकर्मयोग्यपुद्गला आत्मप्रदेशपरिस्पन्दनद्वारेणानुप्रवशन्तीत्यर्थः । येन किम् ? येन तदनुप्रवि.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org