________________
४२८
अनगारधर्मामृते
वसेरकपदे पथिकनिशावासस्थाने । तेन च साधर्म्यमङ्गस्य परद्रव्यत्वाद. ल्पकालाधिवास्यत्वाच्च । कस्य ? तव । कीदृशस्य ? 'शुचेः पवित्ररम्यस्य । कया? प्रकृत्या स्वभावेन । अत्रोपपत्तिमाह-यद यस्मात्कारणान्नोद्विजसे नोद्वेगं गच्छसि त्वम् । न विरमसीत्यर्थः । कस्मात् ? अङ्गात् । किं कुर्वतः ? द्राव्यत्यस्यतोपि सद्यो गन्धवर्णादिना विपयांसं नयतोपि । कथम् ? मुहुरिं वारम् । किं तत् ? विश्रसा स्वभावेन रुचिरं रम्यं श्रीचन्दनानुलेपनादिद्रव्यम् । कीदृशं सत् ? अर्पितमर्पितमिहाङ्गे योजितं योजितम् । उक्तं च
आधीयते यदिह वस्तु गुणाय कान्तं, काये तदेव मुहुरेत्यऽपवित्रभावम् । छायाप्रतारितमतिर्मलरन्ध्रबन्धं,
किं जीव लालयसि भङ्गुरमेतदङ्गम् ॥ देहस्य त्वगावरणमात्रेणैव गृध्राद्यनुपघातं प्रदर्य तस्यैव शुद्धस्वरूपदर्शननिष्ठात्माधिष्ठानतामात्रेण पवित्रताकरणात् सर्वजगद्विशुद्ध्यङ्गतासंपादनायास्मानमुत्साहयतिनिर्मायास्थगयिष्यदङ्गमनया वेधा न भोश्चेत् त्वचा, तत् व्याद्भिरखण्डयिष्यत खरं दायादवत् खण्डशः । तत्संशुद्धनिजात्मदर्शन विधावग्रेसरत्वं नयन्, स्वस्थित्येकपवित्रमेतदखिलत्रैलोक्यतीर्थ कुरु ॥ ६९॥
भो भवन् आत्मन् , चेद् यदि नास्थगयिष्यद् नाच्छादयिष्यत् । कोसौ ? वेधाः स्रष्टा । किम् ? तदेतदङ्गम् । कया ? अनया दृश्यमानया बाह्यया त्वचा चर्मणा । किं कृत्वा ? निर्माय निष्पाद्य तत् ततः अखण्डयिष्यत अकर्तिष्यत छेदमनेष्यत । किम् ? तदेतदङ्गम् । कैः कर्तृभिः ? कव्याद्भिर्मांसभक्षकैर्गुड्रादिभिः । कथम् ? खण्डशः खण्डं खण्डं कृत्वा । कथम् ? खरमुत्कृष्टम् । किंवत् ? दायादवद् दायादैरिव, सक्रोधमिथः स्पर्द्धासंरब्धत्वात् । दायं कुलसाधारणं द्रव्यमाददते विभज्य गृह्णन्तीति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org