________________
षष्ठोऽध्यायः।
४२७
एतेन व्यवहारादेव तस्मादभिन्नोस्मीति गम्यते । यतश्चैवमत एतस्माद्धेतोरुपैमि प्राप्नोम्यहम् । काम् ? मुदमानन्दम् । कथम् ? सदा। कस्मात् ? तद्भेदानुभवाद् वपुर्युग्मादन्यत्वेनात्मनः स्वयं संवेदनात् । उक्तं च
वपुषोऽप्रतिभासेपि स्वातन्त्र्येण चकासति ।
चेतना ज्ञानरूपेयं स्वयं दृश्यत एव हि ॥ तथा,
आत्मानुष्ठाननिष्ठस्य व्यवहारबहिःस्थितेः। जायते परमानन्दः कश्चिद्योगेन योगिनः॥ नो अन्वेमि नानुवर्तहम् । किम् ? तद् वपुर्युग्मम् । कथम् ? पुनर्भूयः । उक्तं च
तथैव भावयेदेहादू व्यावात्मानमात्मनि ।
यथा न पुनरात्मानं देहे स्वप्नेपि योजयेत् ॥ किंच, एकत्वानुप्रेक्षायामेकोहमित्यादिविधिरूपेण निरूपणा । अन्यत्वानुप्रेक्षायां तु देहादयो मम सकाशादन्ये, मंदीया न भवन्तीति निषेधरूपेण । इत्यत्यन्तमनयोर्विशेषः । एवं चिन्तने शरीरादिषु निरीहः सन् श्रेयसि नित्यमुत्सहते ॥ इत्यन्यत्वानुप्रेक्षा । अथ देहस्थाशुचित्वं भावयन्नात्मनस्तत्पक्षपातमपवदति
कोपि प्रकृत्यशुचिनीह शुचेः प्रकृत्या, भूयान्वसेरकपदे तव पक्षपातः । यद्विश्रसा रुचिरमर्पितमर्पितं द्राग,
व्यत्यस्यतोपि मुहुरुद्विजसेऽङ्ग नाङ्गात् ॥ ६८॥ अङ्गेति प्रियत्वामन्त्रणे । अङ्ग हे आत्मन् , वर्तते । कोसौ ? पक्षपातः स्वीकारः । कीदृशः ? कोप्यलौकिको भूयान्महान् । क ? इह अस्मिन्नङ्गे । कीदृशे ? प्रकृत्यशुचिनि प्रकृत्या शुक्रातवात्मककारणेन रसादिधात्वात्मकस्वभावेन विण्मूत्राद्यात्मककार्येण वाऽशुचिन्यऽपवित्रे रम्ये । पुनः कीदृशे ?
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org