________________
४२६
अनगारधर्मामृते
भूतम् ? अन्यदेव भिन्नमेव । कस्मात् ? मत्तः शुद्धचिदानन्दात्मकादात्मनः । कस्मात् ? लक्षणतः। अन्योन्यव्यतिकरे सति येनान्यत्वं लक्ष्यते तल्लक्षणम् । तच्चेह देहस्य रूपादिमत्त्वमात्मनश्चोपयोगः । प्रयोगो, जीवदेहावत्यन्तं भिन्नौ, भिझलक्षणलक्षितत्वाजलानलवत् । किं कुर्वत् ? आभादपि आभासमानमपि । किंवत् ? अनन्यवद् दुःशकविवेचनत्वादभिन्नमिव । तथा चोक्तम्
ववहारणओ भासइ जीओ देहो य हवइ खलु एक्को।
ण उ णिच्छये स जीवो देहो य कयावि एकहो ॥ अपि चयदचेतत्तथापूर्व चेतिष्यति यदन्यदा। चेततीत्थं यदत्राद्य तच्चिद्व्यं समस्म्यहम् ॥ यन्न चेतयते किंचिन्नाऽचेतयत किंचन । यञ्चेतयिष्यते नैव तच्छरीरादि नास्म्यहम् ॥ कस्मात्तद्वयं मत्तो भिन्नमप्यभिन्नमाभाति ? भृशं मिश्रणाद् मया सहा. त्यन्तं मीलनात् । कस्मात्किमिव ? हेम्नः किट्टककालिकाद्वयमिव । किट्टकः स्थूलो बाह्यमलः। कालिका सूक्ष्मोंतीनोऽन्तर्मलः। किदृकश्च कालि. का च किट्टककालिके । तयोर्द्वयम् । यथा हेम्नः काञ्चनाल्लक्षणतो भिन्नमपि भृशं मिश्रणादभिन्नमाभाति तथा प्रस्तुतमपि । हिरवधारणार्थोऽन्य इत्यतो. ऽनन्तरं योज्यम् । अहं च वर्ते । कीदृशः ? अन्यो हि भिन्न एव । कस्मात् ? ततस्तस्माद्वपुर्युग्मात् । कस्मात् ? अर्थाद्वस्तुतः । उक्तं च
नरदेहस्थमात्मानमविद्वान् मन्यते नरम् । तिर्यञ्च तिर्यगङ्गस्थं सुराङ्गस्थं सुरं तथा ॥ नारकं नारकाङ्गस्थं न स्वयं तत्वतस्तथा । अनन्तानन्तधीशक्तिः स्वसंवेद्योऽचलस्थितिः॥
१ व्यवहारनयो भासते जीवो देहश्च भवति खल्वेकः । न च निश्चयात् स जीवो देहश्च कदापि एकार्थः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org