________________
षष्ठोऽध्यायः ।
४२५
प्रतीयमानं समस्तं बहिर्वस्तु । जगतो निष्क्रान्तो निर्जगत् । निर्जगतो भावो नैर्जगत्यम् । सर्वपरद्रव्यग्रहरहितत्वम् । कस्य ? आत्मनोपि स्वस्यापि । किं भूतम् ? अनुभवसिद्धमनुभवेन स्वसंवेदनेन सिद्धमनुभूतपराकारशून्यतया संवेद्यमानत्वात् । किं कस्येव ? नैरात्म्यं जगत इव आत्मा अहंता प्रतीयमानमन्तस्तत्त्वम् । आत्मनो निष्क्रान्तं निरात्म । निरात्मनो भावो नैरात्म्यम् । कस्य ? जगतो विश्वस्य अनहंकारास्पदत्वेन सर्वपरद्रव्याणामनुभवसिद्धत्वात् । उक्तं च
मात्मनात्मन्यात्मनः
परस्परपरावृत्ताः सर्वे भावाः कथंचन । नैरात्म्यं जगतो यद्वन्नैर्जगत्यं तथात्मनः ॥
तत् ततोऽपैष प्रच्यवत्वम् । कस्मात् । भवात् संसारात् शरीराद्वा । किं कुर्वन् ? अनुभवन् संवेदयमानः । कम् ? स्वात्मानम् । किंभूतम् ? विविक्तं देहादिभ्यः पृथग्भूतम् । शुद्धमित्यर्थः । केन ? स्वयमात्मना
उक्तं च
कर्मभ्यः कर्मकार्येभ्यः पृथग्भूतं चिदात्मकम् । आत्मानं भावयेन्नित्यं नित्यानन्दपदप्रदम् ॥ अन्यत्वभावनापरस्य ततोऽपुनरावृत्तिकामतां कथयतिबाह्याध्यात्मिकपुद्गलात्मकवपुर्युग्मं भृशं मिश्रणा, नः किककालिकाद्वयमिवाभादऽप्यदोऽनन्यवत् । मत्तो लक्षण तोयदेव हि ततश्चान्योहमर्थादत, - स्तद्भेदानुभवात्सदा मुदमुपैम्यन्वेमि नो तत्पुनः ॥ ६७ ॥
वर्तते । किं तत् ? अद एतद्वाह्याध्यात्मिकपुद्गलात्मकवपुर्युग्मम् । बाह्यं रसादिधातुमय मौदारिकमाऽऽध्यात्मिकं ज्ञानावरणादिमयं कार्मणम् । पुद्गलाः स्पर्शरसगन्धवर्णवन्तः ः । पुद्गला आत्मा ययोस्ते पुद्गलात्मके । बपुषी शरीरे । पुनलात्मके च ते वपुषी च पुद्गलात्मकवपुषी । बाह्यं चाध्यात्मिकं च बाह्याध्यात्मिके । ते च ते पुद्गलात्मकवपुवी च तयोर्युग्मं द्वयम् । किं
I
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org