________________
४२४
अनगारधर्मामृते
सम् । किं पुनर्दूरम् । कीदृशमङ्गम् ? सुकृतममाहंकारसंस्कारम् । ममाहंकारौ ममेदमिति ममकारोऽहमिदमिति अहंकारश्च । उक्तं च
शश्वदनात्मीयेषु स्वतनुप्रमुखेषु कर्मजनितेषु। आत्मीयाभिनिवेशो ममकारो मम यथा देहः ॥ ये कर्मकृता भावाः परमार्थनयेन चात्मनो भिन्नाः।
तत्रात्माभिनिवेशोऽहंकारोऽहं यथा नृपतिः॥ ममाहंकारयोः संस्कारो दृढतमप्रतिपत्तिर्ममाहंकारसंस्कारः सुकृतो जन्मप्रभृति निर्मितो ममाहंकारसंस्कारो यस्मिंस्तदेवम् । तत्कि सहैष्य. न्ति मया । के ? अर्थाः स्वीसुवर्णादयो भावाः । कीदृशाः ? परे पृथग्भूताः पृथक्प्रतीयमानाश्च । किं बहुना, वा अथवा चकास्ति आत्मानं दर्शयति । कोसौ ? भेदो ज्ञानसुखदुःखादिपर्यायनानात्वम् । कथम् ? स्वयमपि आत्मना आत्मनि वा । किं पुनः परेण परत्र वा । कस्य ? मम आत्मनः । कीदृशः? अर्पित आरोपितः । केन ? व्यवहृतितिमिरेणैव । व्यवहृतियंवहारोऽपोद्धारकल्पना । भेदोपचार इति यावत् । सैव तिमिरं नयनरोगस्तेनैव, न मनागपि निश्वयनयेन । तर्हि निश्चयतः कीदृशस्त्वमसीत्याह अस्मि भवाम्यहम् । कीदृशः ? एक एव पूर्वापरानुस्यूतकचैतन्यरूपत्वात् । कथम् ? तत्त्वतो निश्चयनयेन । एवं ध्यायन् स्वपरजने रागद्वेषाभावान्नि:सङ्गो मोक्षाय घटते ॥ इत्येकत्वानुप्रेक्षा ॥ सांप्रतमन्यत्वभावनायां फलातिशयप्रदर्शनेन प्रलोभयन्नाहनैरात्म्यं जगत इवार्य नैर्जगत्यं, निश्चिन्वन्ननुभवसिद्धमात्मनोपि । मध्यस्थो यदि भवसि स्वयं विविक्तं, खात्मानं तदनुभवन् भावादपैषि ।। ६६ ॥ हे आर्य सामायिकचारित्रेण श्रियमाण, यदि भवसि त्वम् । किं भूतः ? मध्यस्थो रागद्वेषरहितोऽध्यात्मतत्वनिष्ठो वा । किं कुर्वन् ? निश्चिन्वन् प्रतिपत्तिदाय नयन् । किं तत् ? नैर्जगत्यं जगदिदंतया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org