________________
षष्ठोऽध्यायः।
४२३
क ? प्रेत्य परत्रभवे । सहाञ्चति गच्छतीति किप्यागतनिवृत्ते सहस्य सध्रिः । यतश्च प्राग्भवसंबन्धी कश्चित्सहायातोत्र न दृश्येत अतः संभाव्येत अत्र. त्योपि परत्र कश्चित्सह न यास्यतीति । उक्तं च
एकाकी जायते जीवो म्रियते च तथाविधः।
संसारं पर्यटत्येको नानायोनिसमाकुलम् ॥ यतश्चैवं ततस्त्यज मुञ्च त्वम् । काम् ? दुरभिमतिं ममायमिति मिथ्याभिनिवेशम् । किंच, हे जीव, अनुभवसि पश्यसि त्वम् । काका, नानुभवसीत्यर्थः । कान् ? स्वान् निजान् बन्धुपुत्रादीन् । किं भूतान् ? सध्रीचः सहायान् सहकारिणः । व ? आपदि विपदि। कस्यामिव ? संपदीव संपत्तौ यथा । किं कुर्वन् सन् ? जीवन्, न मृतः । जीवतोपि तव बन्धुवर्गः संपद्येव विद्यमानायां सहचरति विपत्तौ पुनदूंरमपसर. तीति प्रतिपद्यस्व त्वम् । परं किंतु एति गच्छति । किं तत् ? श्रेयः पुण्यम् । कथम् ? सह साधं त्वया । किं कर्तुम् ? उपकर्तुम् । कम् ? त्वा त्वाम् । त्वदनुग्रहबुद्ध्या त्वदुपार्जितं पुण्यमेव त्वया सह सर्वत्र यातीत्यर्थः । न केवलम्, अंहश्च पापं च पुण्यवत् त्वया सहैति । किं कर्तुम् ? अपकर्तुम् । कम् ? त्वा त्वाम् । तत्फलं तु तयोः सहगामिश्रेयोंहसोः फलं सुखदुःखरूपं पुनर्भजसि सेवसे भुझ्व त्वम् । किंभूतः सन् ? एकक एकाकी । कथम् ? तत इतः तत्रेह वा। पुण्यपापफले सुखदुःखरूपे अनुभवतस्तव क्वचित्कश्चिन्न संविभागीत्यर्थः ।
आत्मनस्तत्वतो न कश्चिदन्वयी स्थादित्यनुशास्तियदि सुकृतममाहंकारसंस्कारमङ्ग, पदमपि न सहेति प्रेत्य तत्कि परेर्थाः । व्यवहतितिमिरेणैवार्पितो वा चकास्ति, खयमपि मम भेदस्तत्वतोस्म्येक एव ॥६५॥ यदि नैति न गच्छति । किं तत्? अङ्गं शरीरम् । कथम् ? सह जीवेन मया वा । क ? प्रेत्य परत्र भवे । कियत् ? पदमपि एकमपि पादन्या.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org