________________
षष्ठोऽध्यायः।
४२१
कस्य ? ते तव । येन शाक्यवाक्यपरिणामेन कारणेन न स्फुरति न स्फुटमाभासते । किंम् ? तत् सुखं दुःखं वा । कस्य ? ते। किंविशिष्टम् ? भुक्तमनुभूतम् । छ? क्षणे । किंभूते ? अनन्तरातिक्रान्तेपि पाश्चात्यसमनन्तरातीतेपि । शाक्यो ह्यनन्तरातीतक्षणानुभूतं सुखं दुःखं च न प्रत्यक्षमिच्छति । तेनार्थान् ज्ञानस्योत्पत्तेरभिमतत्वादाकारत्वाच्च ज्ञानस्य तन्मते । वा अथवा युक्तमेवैतत् । क कस्मिन्प्राणिन्यस्ति ? न कापीत्यर्थः । कोसौ ? मोहः । किंविशिष्ट ? सगहों जुगुप्सावान् । क ? इह लोके कमपि प्राणिनं असमानो न शूकायते इत्यर्थः ।
संसारदुरवस्था सुतरां भावयन्नाहअनादौ संसारे विविधविपदातङ्कनिचिते, मुहुः प्राप्तस्तां तां गतिमगतिकः किं किमवहम् । अहो नाहं देहं कमथ न मिथो जन्यजनका,ग्रुपाधि केनागां स्वयमपि हहा स्वं व्यजनयम् ।। ६३॥ __ अहो इत्युद्धोधकं स्वात्मानं परात्मानं वा प्रति संबोधनद्योतनार्थमिदम् । भावको हि अहो इत्यनेन स्वस्योद्बोधकमभिमुखीकुरुते । किं किं वर्णसं. स्थानोत्सेधादिभेदेन नानाप्रकारं देहं शरीरमहं नावहं न वहामि स्म । सर्व स्ववहनयोग्यं शरीरमूढवानहमित्यर्थः । प्रायिकमेतत् । तेन सम्यक्त्वसहचारिपुण्योदयजन्यदेहानामप्रसङ्गः । कीदृशः सन् ? प्राप्तोधिगतः । काम् ? तां तां नारकादिलक्षणां गतिम् । कथम् ? मुहुर्वारंवारम् । क ? संसारे । किंविशिष्टे ? अनादौ । पुनः किंविशिष्टे ? विविधविपदातङ्कनिचिते । विविधा विचित्रा विपद इष्टानिष्टविप्रयोगसंप्रयोगद्वारायाता विनिपाताः । तत्कृत आतङ्कः क्षोभावेशो विविधविपदातङ्कः । तेन निचिते व्याप्ते । पुनः कीदृशः ? अगतिकः । गतिरपायनिवारणोपायस्तज्ज्ञानं वा । तदहितः 1 अथ अथवा केन जीवेन सह । कं जन्यजनकाद्युपाधिमुत्पाद्योत्पादकपाल्यपालकभोज्यभोजकभावादिवैभाविकभावम् मिथः परस्परं नागां न गतोऽहम् । सर्वेण सहान्योन्यं सर्व पुत्रपित्रादिभावं प्राप्तवानहमित्यर्थः । उक्तं च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org