SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ ४२० अनगारधर्मामृते मत्तः कायादयो भिन्नास्तेभ्योऽहमपि तत्त्वतः । नाहमेषां किमप्यस्मि ममाप्येते न किंचन ।। एवं भावयतो नित्यमशरणोस्मीत्युद्विग्नस्य सांसारिकभावेषु ममत्वाभावः सर्वज्ञमार्गरतिश्च स्यात् । इत्यशरणानुप्रेक्षा। इदानी संसारमनुप्रेक्षितुमाहतचेद् दुःखं सुखं वा स्मरसि न बहुशो यनिगोदाहमिन्द्रप्रादुर्भावान्तनीचोनतविविधपदेष्वा भवाद्भुक्तमात्मन् । तत्किं ते शाक्यवाक्यं हतक परिणतं येन नानन्तराति,क्रान्ते भुक्तं क्षणेपि स्फुरति तदिह वा कास्ति मोहः सगहः । __ हे आत्मन् क्षेत्रज्ञ, चेद् यदि न स्मरसि नाध्येषि त्वम् । किम् ? तदुःखं सुखं वा । यत्किम् ? यद्भुक्तमनुभूतं त्वया । केषु ? निगोदाहमिन्द्रप्रादुर्भावान्तनीचोन्नतविविधपदेषु । कथम् ? बहुशो बहूननन्तान्वारान् । कथम् ? आ भवात् संसारात्प्रभृति । नीचानि चोन्नतानि च नीचोन्नतानि । निगोदाश्चाहमिन्द्राश्च निगोदाहमिन्द्राः । तेषु प्रादुर्भावो जन्म । सोन्तेऽवसाने येषां तानि निगोदाहमिन्द्रप्रादुर्भावान्तानि । तानि च नीचोन्नतानि च निगोदाहमिन्द्रप्रादुर्भावान्तनीचोन्नतानि निगोदजन्मपर्यन्तानि नीचस्थानानि, प्रैवेयकोगवावसानानि चोच्चस्थानानीत्यर्थः । तया विविधानि नानाप्रकाराणि तन्मध्यवर्तीनि जन्मलक्षणानि पदानि स्थानानि, निगोदाहमिन्द्रप्रादुर्भावान्तनीचोन्नतानि च विविधानि च निगोदाहमि. न्द्रप्रादुर्भावान्तनीचोन्नतविविधानि । तानि च तानि पदानि च तेषु । उक्तं च समभवमहमिन्द्रोऽनन्तशोऽनन्तवारान्, पुनरपि च निगोतोऽनंतशोऽन्तर्निवृत्तः। किमिह फलमभुक्तं तद्यदद्यापि भोक्ष्ये, सकलफलविपत्तेः कारणं देव देयाः॥ किमिति आक्षेपप्रश्ने । हे हतक दुरात्मन् , किं परिणतमेकलोलीभावमापनम् । किं तत् ? निरन्वयक्षणिकवादरूपं शाक्यवाक्यं सुगतवचनम् । Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy