________________
षष्ठोऽध्यायः ।
आः कालव्यालदंष्ट्री प्रकटतरतपोविक्रमा योगिनोपि, व्याक्रोष्टुं न क्रमन्ते तदिह बहिरहो यत् किमप्यस्तु किं मे ६१
?
किं नाभिनयति किं न व्यनक्ति । कोसौ ? यमः कृतान्तः । कम् चण्डिमानं हठात्प्राणहरणलक्षणं क्रूरत्वम् । किंविशिष्टम् ? स्वमात्मीयम् । केषामग्रे ? सम्राजां सकलचक्रवर्तिनाम् । किं कुर्वताम् ? पश्यतामालोकमानानामपि । तर्हि व्यञ्जयत्येव तेषां प्रसारितदृशामपि हठात्पुत्रादीनां प्राणिसंहरणान्यथानुपपत्तेः । तथा च न सीदन्ति न खिद्यन्ते । के ? शका इन्द्राः । क ? दयितवधूदीर्घनिद्रामनस्ये । किंविशिष्टे ? दीर्घे चिरकालानुबन्धिनि । किं तर्हि ? सर्वस्मिन् प्रियाङ्गनामरणदुःखे देवेन्द्रा दैन्यमनुभवन्ति । दयिताः प्रियाः । ताश्च ता वध्र्वश्च दयितवध्वः तासां दीर्घनिद्रा मरणम् । तदुत्थमामनस्यं दुःखं दयितवधूदीर्घनिद्रामनस्यं । इन्द्रदयिता हि समुद्राम्भसीव सागरोपमप्रमिते स्वपत्यायुषि पल्योपमायुषो लहर्य इवोत्पद्योत्पथ बयो विपद्यन्ते । तन्मरणदुःखेन च तत्पतयोपि चिरं वैक्कुव्यमनुभवन्तीति । एवं चक्रिणामिन्द्राणां च प्रतिकर्तुमशक्यपि कालः प्रव्यक्ततपोविक्रमैर्योगीश्वरैः प्रतिविधास्यते इत्यत्राहआ: (संतापप्रकोपयोः ) संतप्ये तदाक्षेपेण प्रकुदयामि वा । न क्रमन्ते नोत्सहन्ते । न शक्नुवन्तीत्यर्थः । के ? योगिनोपि । किं विशिष्टाः ? प्रकटतरतपोविक्रमाः । प्रकटतरो जगद्विख्यातस्तपोविक्रमस्तपसां शक्त्यतिशयो येषां त एवम् । किं कर्तुम् ? व्याक्रोष्टुं प्रतिहन्तुम् । काम् ? कालव्यालंष्ट्राम् । कालोऽन्तकः । स एव व्यालो भुजगो व्याघ्रादिर्वा । तस्य दंष्ट्रा महादशनः । यत एवं तत् तस्मादहो तत्वज्ञा महर्षयः । अस्तु भवतु । किं तत् ? यत्किमपि व्याधिमरणादिकम् । क ? इह अस्मिन्प्रतीयमाने बहिर्बाह्ये वस्तुनि शरीरादौ तत्कि मे मम । देहादेरत्यन्तभिन्नत्वान्मम नित्यानन्दात्सकस्य न किमपि स्यादित्यर्थः । तथा चोक्तम्
न मे मृत्युः कुतो भीतिर्न मे व्याधिः कुतो व्यथा नाहं बालो न वृद्धोहं न युवैतानि पुद्गले ॥ जीवोन्यः पुद्गलश्चान्य इत्यसौ तत्त्वसंग्रहः । यदन्यदुच्यते किंचित् सोस्तु तस्यैव विस्तरः ॥
Jain Education International
४१९
For Private & Personal Use Only
www.jainelibrary.org