________________
४१८
अनगारधर्मामृते-
संप्रत्यशरणं प्रणिधत्ते
तत्तत्कर्मग्लपितवपुषां लब्धवल्लिप्सितार्थ, मन्वानानां प्रसभमसुवत्प्रोद्यतं भङ्क्तुमाशाम् । यद्वार्यं त्रिजगत नृणां नैव केनापि दैवं, तद्वन्मृत्युर्ग्रसनरसिकस्तद्वृथा त्राणदैन्यम् ॥ ६० ॥
यद्वद्यथा नैव वार्य नियमेन निवारयितुं न शक्यम् । किं तत् ? दैवं पुराकृतमशुभं कर्म । केन ? केनापीन्द्रादिना चेतनेन मन्त्रादिनाऽचेतनेन तदुभयेन वा । क्क ? त्रिजगति त्रिषु लोकेषु । कीदृशम् ? प्रोद्यतमभिमुखेनोद्युक्तम् । किं कर्तुम् ? भंक्तुं मर्दयितुम् । काम् ? आशां भविष्यदर्थवाञ्छाम् । कथम् ? प्रसभं हठात् । किंवत् ? असुवत् प्राणैस्तुल्यम् । जीवितव्यमिवाशां निरसितुं प्रोद्यतमित्यर्थः । उक्तं च
Jain Education International
NAV
कर्माण्युदीर्यमाणानि स्वकीये समये सति ।
प्रतिषेद्धुं न शक्यन्ते नक्षत्राणीव केनचित् ॥
1
केषाम् ? नृणां पुरुषाणाम् । किं कुर्वाणानाम् ? मन्वानानां मन्यमानानाम् । कम् ? लिप्सितार्थ लब्धुमिष्टमर्थम् । किंवत् ? लब्धवद् लब्धमिव हस्तप्राप्तं यथा । कीदृशानां सताम् ? तत्तत्कर्मग्लपितवपुषाम् । तेन तेन कर्मणा कृष्यादिना ग्लपितं निःसत्वीकृतं वपुः शरीरं येषां त एवम् । तद्वत् तथा नैव वार्यः । कोसौ ? मृत्युः केन ? केनापि । क ? त्रिजगति । कीदृशः ? ग्रसनरसिकः प्राणसंहरणे प्रसक्तः । केषाम् ? नृणाम् । यत एवं दैवं मृत्युश्वोभयमपि निराकर्तुमशक्यं तत् तस्मात् भवति । किंतत् ? त्राणदैन्यं त्राणाय शरणाय दैन्यं परानुशरणेन कारुण्याविष्करणं अत्राणेन वा शरणाभावेन दैन्यं शोकसंतापानुपतनं । कथं ? वृथा व्यर्थम् । धैर्यमेवावलम्बितुं सतामुचितमित्यर्थः ॥
कालस्य चक्रन्द्रयोगीन्द्राणामप्यशक्यप्रतीकारत्वचिन्तनेन सर्वत्र बहिवस्तुनि निर्मोहतां मुमुक्षुरालम्बयतिसम्राजां पश्यतामप्यभिनयति न किं स्वं यमश्चण्डिमानं, शकाः सीदन्ति दीर्घे व न दयितवधूदीर्घनिद्रामनस्ये ।
For Private & Personal Use Only
www.jainelibrary.org