SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ षष्ठोऽध्यायः। उपमैव तिरोभूतमेदा रूपकमिष्यते । एवमुत्तरत्रापि योज्यम् । तथा वर्तते । कोसौ ? सङ्गमः संयोगः। कैः सह ? स्वबन्धुभिः । पुंसामिति सर्वत्र योज्यम् । कीदृशः ? सङ्गमः संयोगः । कैः सह? पथिकजनैः । क? पथि मार्गे । यथैव हि यतस्तत आगत्य मार्ग अध्वनीना वृक्षादिसन्निधाने किंचित्कालं विश्रम्य स्वस्वकार्यवशाद्यत्र तत्र गच्छन्ति तथा ज्ञातयो यतस्तत आगत्यैकत्र किंचित्कालं स्थित्वा स्वस्वकार्यवशाधन तत्र गच्छन्ति। यदि वा यथा पान्थाः पूर्वांदेर्दिशो मार्गे गच्छन्तः पश्चिमादेश्चागच्छन्तः किंचित्कालं संयुज्य वियुज्यन्ते तथा बन्धवोपीति व्याख्येयम् । तथा वर्तन्ते । के ? खार्था इन्द्रियार्थाः । कीदृशाः ? स्वप्नेक्षितार्थाः। यथैव हि स्वभावस्थायां निरीक्षिताः पदार्थास्तत्काले एव प्रबोधावस्थायां वा न कांचित्स्वसाध्यामर्थक्रियां कुर्वन्ति राथा स्रग्वनिताचन्दनादिविषया अप्युपभुज्यमाना उपभुज्योज्झिता वा तापतृष्णाशान्त्यादिलक्षणां न कांचिदर्थक्रियां कुर्वन्ति । तथा वर्तन्ते । के ? पितृसुतदयिताज्ञातयः। माता च पिता च पितरौ । सुता च सुतश्च सुतौ पुत्रौ । दयिताः प्रियाः । ज्ञातयो बान्धवाः । पितरौ च सुतौ च दयिताश्च ज्ञातयश्च त एते । कीदृशाः ? तोयभङ्गाः। यथैव हि नीरतरङ्गा उद्भूय सद्यस्तिरो भवन्ति तथैव पित्रादयोपि किंचिदवस्थाय विलीयन्त इत्यर्थः । तथा वर्तते । कोसौ ? अनुरागः प्रीतिः। केषाम् ? प्रणयरससृजाम् । प्रणयरसं प्रेयोरसं सृजन्ति उनिरन्त्याविर्भावयन्ति प्रणयरससृजो मित्रसंबंधिप्रभृतयस्तेषामनुरागः । कीदृशः ? संध्यारागः। यथैव हि संध्याया वर्णवैचित्री कतिपयक्षणभाविनी तथा मित्रादीनां प्रीतिरित्यर्थः। तथा वर्तते । किंतत् ? ऐश्यं पूजार्थाज्ञायैश्वर्यम् । कीदृशम् ? हादिनीदाम वा विद्युन्मालेव क्षणदृष्टनष्टत्वात् । किं बहुना? अनुविदधति अनुकुर्वन्ति । के ? भावाः पदार्थाः सैन्यादयः सैनिकरथगजतुरगपदातिप्रभृतयः । न केवलम्, अन्येपि सौधोद्यानादयः । कानि ? तान्येव आयुरादीनि यादीनि । तद्वत्तेप्यनित्या इत्यर्थः । यत एवं तत् तस्माद् दुह्मः प्रपूरयामो वयमानन्दं वा स्त्रावयामः । किं तत् ? ब्रह्म आत्मदेहान्तरज्ञानं परमज्ञानं वा । एवं चिन्तयंतस्तत्राभिषङ्गाभावाद्भुक्तोज्झितमाल्यादिवद्वियोगकालेपि न दुष्परिणामः स्यात् ॥ इत्य नित्यानुप्रेक्षा। Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy