SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ ४१६ अनगारधर्मामृते अपि च बाल्यं वृद्धिर्वयः प्रज्ञा त्विट्चक्षुःशुक्रविक्रमाः।। दशकेषु न वर्तन्ते मनः कर्मेन्द्रियाणि च ।। तथा करणबलमिन्द्रियाणामर्थग्रहणशक्तिं विमृशन्तः । किं वत् ? अमित्रप्रेमवत् शत्रुस्नेहेन तुल्यमुचितोपचारेपि व्यभिचारप्रकाशनात् । यथैव हि योग्यासनादिप्रतिपत्त्याऽनुसंधीयमानमप्यमित्रप्रेम विघटितुं समयमुपेक्षते तथा पथ्याहारविहारादिनोपस्क्रियमाणमपीन्द्रियाणामर्थग्रहण. सामर्थ्यमपसतुं प्रज्ञापराधं मृगयत इत्यर्थः । तथा यौवनं तारुण्यं विमृशन्तः । किंवत् ? स्फुटकुसुमवत् सद्यो विकारित्वाद्विकसित. कुसुमेन तुल्यम् । यथैव हि विकसितं मालत्यादिकुसुमं किंचित्कालं मनोहरणीयतां प्रकाश्य सपदि विकुरुते तथा तारुण्यमपि । तथा एतच्चायुरादिचतुष्टयं विमृशन्तः । कीदृशम् ? प्रक्षयैकव्रतस्थम् । प्रक्षयो निर्मूलप्रलयः। स एवैकमुत्कृष्टं व्रतं नियमः प्रक्षयकवतम् । तत्र तिष्ठति ततो न चलति तत्स्थम् । अवश्यंभावि निर्मूलप्रलयमित्यर्थः । एवमन्तरङ्गभावानामायुरादीनामनित्यतामनुचिन्त्य बहिरङ्गभावानामपि संपदादीनां तामनुचिन्तयन्नाहछाया माध्यान्हिकी श्रीः पथि पथिकजनैः सङ्गमः सङ्गमः स्वैः, खार्थाः स्वमेक्षितार्थाः पितृसुतदयिता ज्ञातयस्तोयभङ्गाः। सन्ध्यारागोनुरागः प्रणयरससृजां हादिनीदाम वैश्यं, भावाः सैन्यादयोन्येप्यनुविदधति तान्येव तद्ब्रह्म दुह्मः ॥५९॥ वर्तते । कासौ ? श्रीलक्ष्मीः । कीदृशी ? छाया प्रभा प्रकाशावरणं वा। कीदृशी ? माध्यान्हिकी मध्यान्हे मध्यंदिनक्षणे भवा । यथैव हि मध्यान्ह च्छाया क्षणमात्रं प्रकाश्यानन्तरं तिरोभवत्येवं संपदपि किंचित्कालमुद्भूय प्रलीयते इत्यर्थः । अत्र माध्याह्निकी छायेव माध्याह्निकी छायेति लुप्तोपमालंकारः, श्रीर्माध्याह्निकी छायैवेति रूपकालंकारो वा । तल्लक्षणं यथा Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy