________________
षष्ठोऽध्यायः।
धनः कृत्प्रत्ययस्तदा भावतद्वतोः कथंचिदभेदात्समासः । अनुप्रेक्षा इति भावसाधनत्वे वचनविरोधः, कर्मसाधनत्वे सामानाधिकरण्याभाव इति चेन्न वा, कृदभिहितस्य द्रव्यवद्भावात् । सामानाधिकरण्यसिद्धिश्चोभयोः कर्मसाधनत्वात् । कैः ? प्रयतैः प्रयत्नपरैर्मुमुक्षुभिः । कथम् ? नित्यं सततम् । यदायत्तमनसां किं स्यादित्याह-यन्निनधियो यास्त्रनुप्रेक्षास्वायत्तमतयः सन्तो यतयश्चरन्ति विहरन्ति । क ? शिवाध्वनि मोक्षमार्गे । किंवि. शिष्टे ? बहुविघ्नेपि । बहवो विघ्नाः प्रतिबन्धका यस्मिन् । किंभूता भवन्तः ? अमन्दमुद उद्रिक्तानन्दाः ।
आयुःकायेन्द्रियबलयौवनानां क्षणभङ्गुरत्वचिन्तनान्मोहोपमर्दमुपदिशति--
चुलुकजलवदायुः सिन्धुवेलावदङ्ग, करणबलममित्रप्रेमवद्यौवनं च । स्फुटकुसुमवदेतत् प्रक्षयैकव्रतस्थं, कचिदपि विमृशन्तः किं नु मुह्यन्ति सन्तः॥ ५८ ॥ नु अहो किं मुह्यन्ति अनित्यताज्ञानहीना ममत्वाधीना वा भवन्ति । न मुह्यन्तीत्यर्थः । के ? सन्तः साधवः । क ? क्वचिदपि आयुरादीनामनन्तरोक्तानां लक्ष्म्यादीनां चोत्तरत्र वक्ष्यमाणानां मध्ये एकस्मिन्नप्यर्थे । कस्मिंश्चिदपि न मुह्यन्तीत्यर्थः । किं कुर्वन्तः ? विमृशन्तः प्रणिहितचेतसा चिन्तयन्तः । किं तत् ? आयुर्भवधारणकारणं कर्म । किंवत् ? चुलुकजलवत् प्रतिक्षणगलद्रूपत्वात् करपुटीकोटरप्रक्षिप्तोदकेन तुल्यम् । तथाऽङ्गं शरीरं विमृशन्तः। किंवत् ? सिन्धुवेलावत् सिन्धोः समुद्रस्य वेलया जलोच्छ्वासेन तुल्यमारोहावरोहत्त्वात् । यथैव हि लवणोदवेला यावदारोढव्यमारोहति । ततश्च यावदवरोढव्यमवरोहति तथेदं शरीरं यावद्वधितव्यं तावद्धात्वादिभिर्वर्धते । ततश्च यावद्धातव्यं तावद्धीयते । तथा चोक्तम्
वयस्त्वा षोडशाद्वाल्यं तत्र धात्विन्द्रियोजसाम् । वृद्धिरासप्ततेर्मध्यं तत्रावृद्धिः परं क्षयः॥
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org