________________
४१४
अनगारधर्मामृते
केन ? अस्वातन्त्र्येण तदधीनतया । क ? गुरौ उपदेष्टरि । कस्मिन्वि पये ? ब्रह्मणि आत्मनि । कया ? मुदा प्रीत्या । यो हि चतुर्थं व्रतमास्थितो व्यवहारेणाध्यात्मगुरोः परमार्थेन स्वात्मनश्चायत्तः सन् प्रीत्या वर्तते स परमं ज्ञानं स्वच्छन्दमनुभवतीति भावः ॥ ब्रह्मचर्यम् ।
इदानीं क्षमादिधर्माणां गुस्यादिभ्योऽपोद्धारव्याहारपुरस्सरमुत्तमविशेषणं व्याचष्टे
गुप्त्या दिपालनार्थं तत एवापोद्धृतैः प्रतिक्रमवत् । दृष्टफलनिर्व्यपेक्षैः क्षान्त्यादिभिरुत्तमैर्यतिर्जयति ॥ ५६ ॥
जयति सर्वोत्कर्षेण वर्तते । कोसौ ? यतिः शुद्धोपयोगायतमानो मुमुक्षुः । कैः ? क्षान्त्यादिभिः क्षमादिलक्षणैर्दशभिर्धर्मैः । किंविशिष्टैः ? उत्तमैरुत्कृष्टैः : । पुनः किंविशिष्टैः ? दृष्टफलनिर्व्यपेक्षेर्यतः । दृष्टफले लाभादौ निर्गता विशेषेणापेक्षा आकाङ्क्षा येषां येभ्यो वा त एवम् । लाभादिनिरपेक्षत्वादुत्तमैरित्यर्थः । पुनरपि किं विशिष्टैः ? अपोद्धृतैः पृथक्कृत्योक्तैः । केभ्यः ? तत एव गुप्त्यादिभ्यः । किंवत् ? प्रतिक्रमवत् कृतदोषनिराकरणलक्षणेन प्रतिक्रमेण तुल्यम् । किमर्थम् ? गुत्यादिपालनार्थ गुहिलमितिव्रतानां रक्षणार्थम् ॥ इत्युत्तमक्षमादिदशलक्षणधर्माधिकारः ।
अथ मुमुक्षूणामनुप्रेक्षाचिन्तनाधीन चेतसां बहुप्रत्यूहेपि मोक्षमार्गे कश्चिप्रत्यवायो न स्यादित्युपदेशपुरस्सरं नित्यं तच्चिन्तने तानुद्योगयन्नाह - बहुविपि शिवाध्वनि यन्निमधियश्चरन्त्यमन्दमुदः । ताः प्रयतैः संचिन्त्या नित्यमनित्याद्यनुप्रेक्षा ॥ ५७ ॥
संचिन्त्याः शरीरादिसङ्गतत्वेन भावनीयाः । काः ? ता अनित्याद्यनुप्रेक्षाः । अनुप्रेक्ष्यन्ते शरीराद्यनुगतत्वेन स्तिमितचेतसा दृश्यन्ते इत्यनुप्रेक्षाः । अनित्यं रूपमादिर्येषामशरणादीनां तान्यनित्यादीनि अनित्याशरणसंसारैकत्वान्यत्वाशुच्यास्रव संवर निर्जरालोक बोधिदुर्लभधर्मस्वाख्यातत्वानि । तान्येवानुप्रेक्षा अनित्याद्यनुप्रेक्षाः । यदा पुनरनुप्रेक्षणमनुप्रेक्षेति भावसा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org