________________
षष्ठोऽध्यायः।
४१३
दानदिवसं यावत् । कस्मात् ? उत्कर्षतः, प्रातः पुनः क्षुत्पीडाप्रादुर्भावोप. लम्भात् । ज्ञानात्तु पुनर्दत्तादिक्षुर्मोदते नित्यमाल्हादते । क? अमृते मोक्षे । कथंभूतो भूत्वा ? तृप्तः सुखितः । कासाम् ? भवमुदां संसार. सुखानाम् । कीदृशाज्ज्ञानात् ? आशुभवन्मुदः आशु सद्यो भवन्ती संजायमाना मुत्प्रीतिर्यस्मात्तदेवम् । यत एवं तत् तस्माद्भाति शोभते । कोसौ ? ज्ञानदः साधुः । किं कुर्वन् ? तिरयन् तिरस्कुर्वन् प्रभावेन हापयन् । कान् ? दातॄन् । कीदृशान् ? इतरान् अभयदानादिकारिणः । क इव कान् ? रविरिव ग्रहान् । यथा सूर्य इतरान् चन्द्रादिग्रहान् तिरयन् छादयन् भाति तथा प्रस्तुतोपि त्यागः। अथाकिंचन्यलक्षणधर्मानुष्ठायिनः परमाद्भुतफलप्रतिलम्भमभिधत्तेअकिञ्चनोऽहमित्यसिन् पथ्यक्षुण्णचरे चरन् । तददृष्टचरं ज्योतिः पश्यत्यानन्दनिर्भरम् ॥ ५४॥ पश्यति अनुभवति साधुः । किं तत् ? तहकोत्कीर्णेकज्ञायकभावस्त्रभावमात्माख्यं ज्योतिः। कीदृशम् ? अदृष्टचरं पूर्व कदाचिदप्यनुपलब्ध. म् । पुनः कीदृशम् ? आनन्दनिर्भरमानन्देनाल्हादेन निश्चितं भ्रियमाणं यूर्यमाणम् । किं कुर्वन् ? चरन भावकभावेन प्रवर्तमानः । क ? पथि मार्ग प्रायुपाये । कीदृशे ? अकिञ्चनोहमित्यस्मिन् नास्ति किंचनोपातमपि शरीरादिकं मम इत्य किंचनोहमस्मीत्येवंभूते । उपात्तेष्वपि हि शरीरादिषु संस्कारादित्यागान्ममेदमित्यभिसंधिनिवृत्तिराकिंचन्यमिष्यते । पुनः कीदृशे ? अक्षुण्णचरे पूर्वं कदाचिदप्यनवगाहिते । आकिंचन्यम् । अथ ब्रह्मचर्यस्वरूपं धर्म निरूपयन्नाहचरणं ब्रह्मणि गुरावस्वातत्रयेण यन्मुदा । चरणं ब्रह्मणि परे तत्स्वातत्र्येण वर्णिनः ॥ ५५॥ भवति । किम् ? तच्चरणं प्रवृत्तिः । कस्य ? वर्णिनो ब्रह्मचारिणो मैथुनानिवृत्तस्य । क ? ब्रह्मणि ज्ञाने आत्मनि वा । किंविशिष्टे ? परे उत्कृष्टे । केन ? स्वातन्त्र्येण स्वच्छन्दवृत्त्या । यत्किम् ? यच्चरणम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org