________________
•rrrrrrrrr
४१२
अनगारधर्मामृतेwww.rrrrrrrrrrrrrrrrr~~~
अयमत्राभिप्रायः । परिग्रह निवृत्तिरनियतकाला यथास्वशक्ति त्यागः । कायोत्सर्गः पुनर्नियतकालः सर्वोत्सर्गरूपः। कर्मोदयवशादसन्निहितविषय. गोत्पत्तिनिषेधः शौचम् । त्यागः सन्निहितापायः । इति शौचादप्यस्य भेदः । सेव्योऽसकृदभ्यसनीयः साधुभिः । कोसौ ? त्यागः । किंरूपः ? निवृत्तिावृत्तिपरिणामः । कस्मात् ? उपधेः परिग्रहात् । कस्मात् ? दोषैकमूलत्वाद् रागादीनां प्रधानकारणत्वात् । कया ? शक्त्या यथा. त्मशक्ति । कथम् ? सदा सर्वदा । पक्षान्तरमाह-ज्ञानादिदानं वा ज्ञानादिदानरूपो वा त्यागः सेव्यः साधुभिः । कीदृशो यतः ? सर्वगुणाग्रणीः सर्वेषां गुणानां मध्ये प्रधानम् । प्रथमपक्षे विशेषणमिदम् । उक्तं च
अनेकाधेयदुष्पूर आशागर्तश्चिरादहो। चित्रं यत्क्षणमात्रेण त्यागेनैकेन पूर्यते ॥ कः पूरयति दुष्पूरमाशागर्त दिने दिने । यत्र समस्तमाधेयमाधारत्वाय कल्पते ॥ ज्ञानदानमहिमानमखिलदानमाहात्म्यन्यग्भावेन पुरस्कुर्वन्नाहदत्ताच्छम किलैति भिक्षुरभयादा तद्भवाद्भेषजा,दा रोगान्तरसंभवादशनतश्वोत्कर्षतस्तदिनम् । ज्ञानात्त्वाशुभवन्मुदो भवमुदां तृप्तोऽमृते मोदते, तदातॄस्तिरयन् ग्रहानिव रविर्भातीतरान् ज्ञानदः ॥५३॥ किल एवं ह्यागमे श्रूयते-एति गच्छति प्राप्नोति । कोसौ ? भिक्षुः संयमी । किं तत् ? शर्म सुखम् । कस्मात् ? अभयात् । किंविशिष्टात् ? दत्ताद 'मा कुतश्चिझैपीः' इति संकल्पेन वितीर्णात् । कियन्तं कालम् ? आ तद्भवाद् वर्तमानजन्म यावत् । कस्मात् ? उत्कर्षतः प्रकर्षवृत्या । तथा भिक्षुर्भेषजादौषधादत्ताच्छम एति । कियन्तं कालम् ? आ रोगान्तरसंभवात् । कस्मात् ? उत्कर्षतः । ज्वरनौषधदानेन हि निवर्तिते ज्वरे तावदेव भिक्षुः सुखी भवति यावद्रक्तपित्तं कासादिर्वा नोत्पद्यते । तथाऽशनतो भोजनाद्दत्ताद्भिक्षुः शमैति । कियन्तं कालम् ? तद्दिनमन्न.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org