________________
षष्ठोऽध्यायः।
टोत्कीर्णंकज्ञायकभावस्वभावम् । व्यवहारस्तु यद्यमी मां खादन्ति तदा खादन्तु इति क्रियासमभिहारार्थेन या द्योत्यते, स्वात्मसंवित्तिनिष्ठस्य बहिर्दुःखाऽचेतकत्वात् । तथा चोक्तम्
आत्मानुष्ठाननिष्ठस्य व्यवहारबहिःस्थितेः। जायते परमानन्दः कश्चिद्योगेन योगिनः॥ आनन्दो निर्दहत्युद्यं कर्मेन्धनमनारतम् । नचासौ खिद्यते योगी बहिर्दुःखेष्वचेतनः ॥ अपि च
आत्मदेहान्तरज्ञानजनिताल्हादनिर्वृतः। तपसा दुष्कृतं घोरं भुञ्जानोपि न खिद्यते ॥ इति संयमप्रकरणम् । अथोपेक्षासंयमसिद्ध्यङ्गे तपोरूपे धर्मेऽनुष्टातृनुत्साहयन्नाहउपेक्षासंयमं मोक्षलक्ष्मीश्लेषविचक्षणम् । लभन्ते यमिनो येन तचरन्तु परं तपः ॥ ५१ ॥
चरन्तु अनुतिष्ठन्तु । के ? यमिनः साधवः । किं तत् ? तत्तपः । किंविशिष्टम् ? परमुत्कृष्टम् । स्वाध्यायध्यानरूपमित्यर्थः। तथा चोक्तम्
स्वाध्यायाद् ध्यानमध्यास्तां ध्यानात्स्वाध्यायमामनेत् । ध्यानस्वाध्यायसंपत्त्या परमात्मा प्रकाशते ॥ येन किम् ? येन लभन्ते यमिनः । कम् ? उपेक्षासंयमम् । कीद. शम् ? मोक्षलक्ष्मीश्लेषविचक्षणं मोक्षलक्ष्म्या अनन्तज्ञानादिचतुष्टयलक्षणाया श्लेषे आलिङ्गने विचक्षणं चतुरदूतप्रायं तपः। अथ त्यागात्मकं धर्ममवगमयतिशक्त्या दोषैकमूलत्वानिवृत्तिरुपधेः सदा । त्यागो ज्ञानादिदानं वा सेव्यः सर्वगुणाग्रणीः ॥ ५२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org