________________
४१०
अनगारधर्मामृते
चञ्चम्यन्त इमं न मामिति तदाबाधे त्रिगुप्तः परा,क्लिष्ट्योत्सृष्टवपुर्बुधः समतया तिष्ठत्युपेक्षायमी ॥ ५० ॥ बुधो देशकालविधानज्ञ आत्मदेहान्तरज्ञो वा उपेक्षायमी उपेक्षासंय. मपरिणतः समतया इष्टानिष्टयो-रागद्वेषोपरमेण तिष्ठति आस्ते । मनागपि न विक्रियते इत्यर्थः । कथंभूतो भूत्वा ? उत्सृष्टवपुर्ममत्वव्यावर्तनेन परित्यक्तशरीरः । कया ? पराक्लिष्ट्या परेषामुपद्रावकजीवानामनुपघातेन । कीदृशः सन् ? त्रिगुप्तः सम्यनिगृहीतमनोवाक्कायव्यापारः । व सति ? तदाबाधे तैरुपद्रावकजीवैः क्रियमाणे दुःखे । कथं समतया तिष्ठति ? इति अनेन भावनाविशेषसौष्ठवलक्षणेन प्रकारेण । तमेव दर्शयति-चचम्यन्ते अत्यर्थं पुनः पुनर्वा खादन्ति । के ? अमी व्याघ्रादि जीवाः । काम् ? इमां दृश्यमानां तनुमौदारिकशरीरम् । किंविशिष्टाम् ? मन्नेतृकाम् । अहं चिदात्मा नेता प्रयोक्ताऽस्याः काहार इव कावव्या मन्नेतृका, ताम् । कयाचञ्चम्यन्ते ? मद्धिया महध्या । शरीरं मां बुद्ध्वेत्यर्थः । कीदृशाः सन्तः ? ईरिताः प्रेरिताः प्रयुक्ताः । कैः ! कर्मभिः परघातादिभिः। कीदृशैः ? स्वैः स्वैर्निर्निः । पुनः कीदृशैः ? मत्कर्मक्लप्तोदयैः। मम कर्म उपघातादि. रूपं मत्कर्म । मत्कर्मणा क्लतः सहकारिभावेन निर्मित उदयो विपाकः स्वफलदातृत्वं येषां तानि तथोक्तानि । कीदृशा अमी ? ते परमागमप्रसिद्धाः । पुराणपुरुषाः परमात्मानः सर्वजीवानां द्रव्यतस्तथाभावात् । तदुक्तम्
सिद्धत्वे यदिह विभाति वैभवं वो बद्धत्वेप्यखिलतया किलेदमासीत् । बद्धत्वे न खलु तथा विभातमित्थं, बीजत्वे तरुगरिमात्र किं विभाति ॥ पुनः कीदृशाः ? मत्सुहृदो मया सदृशाः 'सव्वे सुद्धा हु सुद्धणया' इति वचनात् । अथवाऽनादिसंसारे पित्रादिपर्यायेण ममोपकारकाः । यदाह
सर्वे तातादिसंबन्धा नासन् यस्याङ्गिनोङ्गिभिः ।
सर्वैरनेकधा साई नासावऽङ्गयपि विद्यते ॥ एवं च तनुसंसर्गाजीवस्य खाद्यत्वे प्रसक्ते सतीदमाह-इमं न मामिति। न चञ्चम्यन्ते । के ? अमी। कम् ? इमं स्वसंवेदनप्रत्यक्षं मां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org