________________
षष्ठोऽध्यायः।
४०९
ताम् । कासु ? भिक्षादिषु । कतिषु ? अष्टसु । भिक्षा चेर्या च शयनासनं च विनयश्च व्युत्सर्गश्च वाक् च मनश्च तनुश्च, तास्वेवम् ॥ तत्र भिक्षाशुद्धिः पिण्डशुद्धौ व्याख्याता । तत्परस्य पुनर्मुनेरशनं गोचाराक्षम्रक्षणोद्वराग्निप्रशमनभ्रमराहारश्वभ्रपूरणनामभेदात्पञ्चधा स्यात् । तत्र गोर्बलीवर्दस्येव चारोभ्यवहारो गोचारः प्रयोक्तृजनसौन्दर्यनिरीक्षणविमुखतया यथालाभमनपेक्षितस्वादोचितसंयोजनाविशेष चाभ्यवहरणात् । तथा अक्षस्य शकटीचक्राधिष्ठानकाष्ठस्य म्रक्षणं स्नेहेन लेपनमक्षम्रक्षणम् । तदिवाशनमप्यक्षम्रक्षणमितिरूढम् , येन केनापि स्नेहेनेव निरवद्याहारेणायुषोऽक्षस्येवाभ्यङ्गं प्रतिविधाय गुणरत्नभारपूरिततनुशकट्याः समाधीष्टदेशप्रापणनिमित्तत्वात् । तथा भाण्डागारवदुदरे प्रज्वलितोनिः प्रशम्यते, येन शुचिनाऽशुचिना वा जलेनेव सरसेन विरसेन वाशनेन तदुदराग्निप्रशमनमिति प्रसिद्धम् । तथा अमरस्येवाहारो भ्रमराहारो दातृजनपुष्पपीडानवतारात् परिभाष्यते । तथा श्वभ्रस्य गर्तस्य येन केनचित्कचारेणेव स्वादुनेतरेण वाहारेणोदरगर्तस्य पूर• णात् श्वभ्रपूरणमित्याख्यायते। ईाव्युत्सर्गवाक्शुद्धयः समितिषु व्याख्याताः। शयनासनविनयशुद्धी तु तपःसु वक्ष्येते । मनःशुद्धिस्तु भावशुद्धिः कर्मक्षयोपशमजनिता मोक्षमार्गरुच्याहितप्रसादा रागाद्युपप्लवरहिता च स्यात् । सैव च सर्वशुद्धीनामुपरि स्फुरति तदेकमूलत्वादाचारप्रकाशनायाः । तथा चोक्तम्
सर्वासामेव शुद्धीनां भावशुद्धिः प्रशस्यते ।
अन्यथालिङ्गयते पत्यमन्यथालिङ्गयते पतिः ॥ कायशुद्धिस्तु निरावरणाभरणा निरस्तसंस्कारा यथाजाता मलधारिणी निराकृताङ्गविकारा सर्वत्र प्रयत्नवृत्तिः प्रशमं मूर्तमिव प्रदर्शयन्ती च स्यात् । तस्यां च सत्यां न स्वतोन्यस्य नाप्यन्यतः स्वस्य भयमुद्भवति । स एष शुध. टकप्रपञ्चः समित्यादिभ्योऽपोद्धत्य सूत्रेन्वाख्यायते संयमस्यातिदुष्करतया परिपालने सुतरां बालाशक्तानगारवर्गस्य प्रयत्नप्रतिसंधानार्थमिति । उपेक्षासंयमपरिणतं लक्षयतितमी मत्सुहृदः पुराणपुरुषा मत्कर्मक्लप्तोदयैः, खैः स्वैः कर्मभिरीरितास्तनुमिमां मतकां मद्धिया।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org