________________
४०८
अनगारधर्मामृतेmmmmmmm
स्वं व्यावर्त्य ततः सतां नमसितः स्यात् तानुपायेन तु,
स्वान्मार्जन मृदुना प्रियः प्रतिलिखनप्यादृतस्तादृशा॥४८॥ _स्यात् । कोसौ ? यतिः। कीदृशः ? नमसितः पूजितः । केषाम् ? सताम् । साधुभिः पूज्यते इत्यर्थः । किं कुर्वन् ? पालयन् रक्षन् । कान् ? जन्तून् प्राणिनः । कीदृशान् ? तदभ्युपसृतान् प्रासुकवसत्यादावुपनि. पतितान् । किं कृत्वा ? व्यावर्त्य तद्वस्तुत्यागेन वियोगोपघातादिचिन्तापरिहारेण वा प्रच्याव्य । कम् ? स्वमात्मानम् । केभ्यः ? ततस्तेभ्यस्तथाभूतजन्तुभ्यः । कीदृशः सन् ? आश्रितोऽभ्युपगतः । किं तत् ? साधनं ज्ञानाद्युपकरणम् । कीदृशम् ? बाह्य व्यसुवसत्यनादिमात्रम् । विगता असवः प्राणास्तद्योगात्प्राणिनो यस्मात्तद् व्यसु प्रासुकम् । तच्च तद्वसत्यन्नादिमानं च । वसतिर्यत्र स्थितो ज्ञानादिकमभ्यस्यति । अन्नं यदुपयोगात्तदुप. चिनोति । आदिशब्दात् पुस्तकसहायादिग्रहः । वसतिश्चान्नं च वसत्यने । ते आदी यस्य तद्वसत्यन्नादि । तदेव तन्मात्रम् । अविशेषार्थो मात्र प्रत्ययः । पुनः कीदृशः ? स्वसाद्भूतज्ञानमुखः स्वाधीनज्ञानचरणकरणः । ज्ञानं मुखे यस्य तज्ज्ञानमुखं ज्ञानादिकम् । सोयमुत्तमः प्राणिसंयमः। तुर्विशेषे । स्याद्भवेत् । कोसौ ? यतिः । कीदृशः ? प्रियोऽभिमतः । केषाम् ? सताम् । किं कुर्वन् ? मार्जन शोधयन् प्रति लिखन् । कान् ? तान् तदभ्युपसृतान् जन्तून् । केन ? उपायेन पिच्छादिना । कीडशेन ? मृदुना उपलक्षणात्प्रागुक्तपञ्चगुणेन । कस्मात् ? स्वादात्मीयाच्छरीरादेः। सोयं मध्यमः प्राणिसंयमः। तथा यतिः सतामादृतः संप्रतिपन्नः स्यात् । किं कुर्वन् ? प्रतिलिखन् अपनुदन् । कान् ? तान् तदभ्युपसृतान् जन्तून् । कस्मात् ? स्वात् । केन ? उपायेन । कीदृशेन ? तादृशा यथोक्तप्रतिलेखनाऽलाभे तत्तुल्येन । अपि समुच्चये।
अपहृतसंयमस्फारीकरणाय शुद्ध्यष्टकमुपदिशतिभिक्षेशियनासनविनयव्युत्सर्गवाङ्मनस्तनुषु । तन्वन्नष्टसु शुद्धिं यतिरपहृतसंयमं प्रथयेत् ॥ ४९ ॥ यतिः संयमपालनोद्यतः साधुः प्रथयेत् पृथूकुर्यात् । कम् ? अपहतसंयमम् । किं कुर्वन् ? तन्वन् विस्तारयन् । काम् ? शुद्धिं निरवद्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org