________________
षष्ठोऽध्यायः।
४०७
स्वयं विषयदूरीकरणलक्षणं मध्यममपहृतसंयमभेदं प्रत्युद्यमयतिमोहाजगत्युपेक्ष्येपि छेत्तुमिष्टेतराशयम् । तथाभ्यस्तार्थमुज्झित्वा तदन्यार्थ पदं व्रजेत् ॥ ४६॥ बजेद्गच्छेत् संयमार्थी । किं तत् ? पदं स्थानम् । किंविशिष्टम् ? तदन्यार्थ तेभ्य इष्टानिष्टतयाभ्यस्तेभ्योर्थेभ्योन्ये तथानभ्यस्ता अर्था यस्य यस्मिन्वा तत् तदन्यार्थम् । किं कृत्वा ? उज्झित्वा त्यक्त्वा । किं तत् ? पदम् । किंविशिष्टम् ? तथाभ्यस्तार्थमिष्टानिष्टतया पुनः पुनः सेवित. विषयम् । किं कर्तुम् ? छेत्तुमपनेतुम् । कम् ? इष्टेतराशयम् इष्टानिष्टवासनाम् । कस्मात् ? मोहादज्ञानात् प्रवृत्तम् । क ? जगति चराचरे लोके । किंविशिष्टेपि ? उपेक्ष्येपि वस्तुत उपेक्षणीयेपि ॥
मनोविक्षेपकारणकरणगोचरापसारणपरायणं गुर्वादिकमभिनन्दतिचित्तविक्षेपिणोक्षार्थान् विक्षिपन् द्रव्यभावतः। विश्वाराट् सोयमित्याबहुमन्येत शिष्टराद् ॥४७॥
मन्येत प्रतिपद्येत । कोसौ ? शिष्टराट्र शिष्टानां तत्वार्थश्रवणग्रहणसंपादितगुणानां राड् राजा, शिष्टेषु वा राजते इति । कैः ? आर्यैः । कथं कृत्वा ? बहु प्रभूतम् । कथम् ? इति वर्तते । कोसौ ? अयं दृश्यमानः शिष्टराट् । कीदृशः ? स प्रसिद्धो विश्वाराट्र । विश्वस्मिन् राजते इति विश्वाराड् जगन्नाथः । “विश्वस्य वसुराटोः" इति दीर्घः । किं कुर्वन्नसौ तथा मन्येत ? विक्षिपन् विशेषेण प्रेरयन् अपसारयन् । कान् ? अक्षा. र्थान् इंद्रियार्थान् । काभ्याम् ? द्रव्यभावतो द्रव्यतो बहिर्वर्तिनो भावतश्चान्तवृत्तीन् । कीदृशानुभयानपि ? चित्तविक्षेपिणो रागद्वेषाद्युद्भावनेन मनसः क्षोभकरान् ।
तथोत्तममध्यमाधमभेदात्रिप्रकारं प्राणिपरिहाररूपमपहृतसंयम प्रपञ्चयन्नाह
बाह्यं साधनमाश्रितो व्यसुवसत्यनादिमात्रं वसाद्, भूतज्ञानमुखस्तदभ्युपसृतान् जन्तून्यतिः पालयन् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org