________________
४०६
अनगारधर्मामृते
वैभाविकं भावमापाद्यमानोऽयं स्वसंवेदनसुव्यक्तः पुमानात्मा नैव चेतयते ज्ञानचेतनां न लभते एव । क ? भवे भवे जन्मनि जन्मनि । लौकिकेन हि विषेणाभिभूतस्तद्भवे एव न चेतयते । विषयविषेण पुनरभिभूतोऽनन्तेष्वपि भवेषु न चेतयते इत्यस्यालौकिकत्वम् । ततो ज्ञानचेतनापीयूषपिपासूनामस्मारिमणमेव श्रेयः ।
एवमिन्द्रियपरिहारलक्षणमपहृतसंयममुत्तमप्रकारेण भावनाविषयीकृत्येदानीं तमेव मध्यमजघन्यप्रकाराभ्यां भावयितुमुपक्रमते -
साम्यायाक्षजयं प्रतिश्रुतवतो मेडमी तदर्थाः सुखं, लिप्सोदुःखविभीलुकस्य सुचिराभ्यस्ता रतिद्वेषयोः । व्युत्थानाय खलु स्युरित्यखिलशस्तानुत्सृजेद्दूरत, - स्तद्विच्छेदन निर्दयानथ भजेत्साधून्परार्थोद्यतान् ॥ ४५ ॥
उत्सृजेत् त्यजेत् संयमार्थी | कानू ? तानक्षार्थान् । किंविशिष्टान् ? अखिलशः समस्तान् । कस्मात् ? दूरतो विप्रकृष्टात् । कथम् ? इति । किमिति ? स्युर्भवेयुः । के ? अमी सन्निहितास्तदर्था अक्षार्थाः । कस्मै ? व्युत्थानाय झगित्युद्बोधाय । कयोः ? रतिद्वेषयो रागापरागयोः । कथम् ? खलु स्फुटम् । कीदृशा यतः ? सुचिराभ्यस्ता अनादिकालं भाविताः । कस्य ? मे मम । किं कृतवतः ? प्रतिश्रुतवतोङ्गीकृतवतः । कम् ? अक्षजयमिन्द्रियवशक्रियाम् । कस्मै ? साम्याय उपेक्षासंयमसिद्ध्यर्थम् । किं चिकीर्षोः ? लिप्सोः प्रातुमिच्छोः । किं तत् ? सुखम् । तथा दुःखविभीलुकस्य दुःखाद्विशेषेण भयं शीलयतः । सेयं मध्यमवृत्येन्द्रियसंयमभावना । अत्र हि विषयाणां बाह्यवृत्या आत्मनो दूरीकरणं, न पुनः पूर्ववदन्तर्वृत्या आत्मनस्तेभ्यो व्यावर्तनम् । अथ तमेव जघन्यवृत्त्या निर्दिशति - अथ अथवा भजेत्सेवेत तद्भावनायामसमर्थः साधुः । कान् ? साधून् चिरप्रव्रजितान्मुनीन् । कीदृशान् ? तद्विच्छेदननिर्दयान् तेषां विषयाणां विच्छेदने दूरीकरणे कर्कशान् । कीदृशान् तान् ? परार्थोद्यतान् परप्रयोजनोद्युक्तान् । सेयं जघन्यवृत्येन्द्रियसंयमभावना | अत्र हि परद्वारेण विषयापसारणम् ॥
I
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org