________________
षष्ठोऽध्यायः।
४०५
अङ्ग इति प्रियत्वामन्त्रणे । अपवदन्ति उपक्रोशन्ति । तत्साध्यं मोहमूर्छासंतापादिकं कुर्वन्तीत्यर्थः । के ? तेपि परमोत्तमा विषयाः सम्वनिताचन्दनादयः। किं तत् ? विषं गरलम् । कथम् ? ऊध्र्व तत्क्षणादनन्तरम् । ये किम् ? ये खर्वन्ति खण्डयन्ति । कम् ? सुधागर्वमऽमृतस्यात्मोत्कर्षसंभावनम् । अमृतादपि रम्यतां धारयन्तीत्यर्थः । किंविशिष्टा सन्तः ? अभिमुखहृषीकप्रणयिनः अभिमुखैः स्वग्रहणोत्सुकै. हृषीकैरिन्द्रियः प्रणयिनो यथास्वं परिचयभाजः । विषयविषयिसन्निकर्षविशेषसूचिका श्रुतिर्यथा
पुढे सुणेदि सद्दमऽपुढे पुण पस्सदे रुवं ।। गन्धं रसं च फासं पुट्ठापुढे वियाणादि ॥ एवमिष्टेन्द्रियार्थानामापातमात्ररमणीयत्वावसानकटुकत्वे निर्दिश्य क्षणभंगुरत्वतृष्णासंतापकारित्वे निर्दिशन्नाह-तिरोभवन्ति उपभोगयोग्यतारूपं त्यजन्ति । अनुपभोग्या भवन्तीत्यर्थः । के ? त एव तादृग्रम्या विपया एव । कथम् ? खलु निश्चयेन । कीदृशाः सन्तः ? प्रतिचितधनायाः प्रतिवर्धितगृद्धयः । किं कृत्वा ? आविर्भूय उपभोगयोग्यतारूपेण परिणम्य । उक्तं च
आरम्भे तापकान् प्राप्तावऽतृप्तिप्रतिपादकान् । अन्ते सुदुस्त्यजान् कामान् कामं कः सेवते सुधीः ॥ अथानुशोचनामाह-अहह कष्टं, किम कर्षन्ति किं स्वाभिमुखमान. यन्ति । के ? अन्धास्तत्तादृग्विषयतत्वानभिज्ञाः । काः ? विपद आपदः । किमर्थम् ? तेभ्योपि तत्तादृग्विषयेभ्यः । अपिर्विस्मयशोचने ॥ विषयाणामिहामुन चात्यन्तं चैतन्याभिभवनिबंधनत्वमभिधत्तेकिमपीदं विषयमयं विषमतिविषमं पुमानयं येन । प्रसभमभिभूयमानो भवे भवे नैव चेतयते ॥ ४४ ॥ इदं प्रतीयमानं विषयमयं विषयात्मकं विषं किमप्यलौकिकमतिविषममऽत्यन्तकष्टं वर्तते । येन किम् ? येन प्रसभं हठादभिभूयमानो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org