________________
अनगारधर्मामृते—
भोश्चेतः हे मनः, हे अभिमानघन अहंकारनिविड, पृच्छामि वाम् । कया अविद्यया क्रियसे त्वम् । कीदृशम् ? आसेदु आसीदति तच्छीलं भवत्युपस्थातृ इत्यर्थः । कानि ? अमूनीन्द्रियाणि चक्षुरादीनि । किंविशिष्टानि ? निजमुखप्रेक्षीणि स्वायत्तवृत्तीनि । कस्यै ? तत्तद्रोचरभुक्तये । ते ते प्रतिनियता गोचरा इष्टानिष्टविषयास्तत्तद्गोचराः । तेषां भुक्तिरनुभूतिस्तदर्थम् । मनःप्राणिधानाभावे चक्षुरादीनां स्वस्वविषयव्यापारानुपलम्भादेवमुच्यते । हे कृतिन्, गुणदोषविचारणस्मरणादिप्रधान, किं पूर्या पूरयितुं शक्या । कासौ ? आशा आकाङ्क्षा । कस्य ? तव । कैः ? इमकैः संबद्धवर्तमानप्रति नियत रूपा दिगोचराचारित्वादलौ - रेभिरिन्द्रियैः । कीटशैः ? रङ्गैः प्रतिनियतार्थोपभोगबद्धदुर्वारनिर्बन्धत्वा
प्रायैः । कीदृशी तवाशा यतः ? विश्वचरी सकलजगत्कवलनपरा । यत एवं ततो भज सेवस्व त्वम् । किं तत् ? यौवराज्यं शुद्धस्वात्मानुभूतियोग्यतालक्षणं कुमारपदम् । एकत्ववित्तकवीचाराख्यशुक्रुध्याननिष्ठतामित्यर्थः । किं कुर्वत् ? सजद् निर्व्याजभक्त्यानुरक्ततया तन्मयीभवत् ? क ? सवितरि जनके । कीदृशे ? स्वे निजे । परमब्रह्मणीत्यर्थः । पुनः कीदृशे ? विश्वैश्वर्यचणे समस्तवस्तुविस्ताराधिपत्येन प्रतीते । यथाह
४०४
तुभ्यं नमः परमचिन्मयविश्वकर्त्रे, तुभ्यं नमः परमचिन्मयविश्वभोक्त्रे | तुभ्यं नमः परमचिन्मयविश्वभर्त्रे, तुभ्यं नमः परमकारणकारणाय ॥
विषयाणामास्वादनक्षणरामणीयकानन्तरात्यन्तकटुकास्वादत्वप्रतिपादनपूर्वकमाविर्भावानन्तरोद्भावित तृष्णा पुनर्नवी भावं तिरोभावं भावयन् पृथजनानां तदर्थं स्वाभिमुखं विपदाकर्षणमनुशोचति - सुधा खर्वन्त्यभिमुख हृषीक प्रणयिनः, क्षणं ये तेप्यूर्ध्व विषमपवदन्त्यङ्ग विषयाः । त एवाविर्भूय प्रतिचितधनायाः खलु तिरो, - भवन्त्यन्धास्तेभ्योप्यहह किमु कर्षन्ति विपदः ॥ ४३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org