________________
षष्ठोऽध्यायः।
हे अन्तरात्मन् ! चित्तदोषात्मविचारचतुर चिद्विवर्त, खलु निश्चयेन यदि चेदसि भवसि त्वम् । कीदृशः ? पुत्रो य उत्पन्नः पुनीते वंशं स पुत्र इति निरुक्तिगम्यः । कस्य ? परमब्रह्मणः परमात्मनः । तत् किं हंसि हिनत्सि त्वम् । कम् ? स्वमात्मानम् । कथम् ? अमा सह । केन ? सवित्रा जनकेन परमब्रह्मणा । अन्तरात्मनश्चात्मघातो बहिरात्मपरिणतिः, परमात्मघातस्तु शुद्धस्वरूपप्रच्यावनपूर्वकं रागद्वेषापादनम् । तथा चोक्तम्
चित्ते बद्ध बद्धो मुक्के मुक्को य णत्थि संदेहो।
अप्पा विमलसहाओ मइलिजइ मइलिए चित्ते ॥ किं कुर्वाणः ? भुजानोऽनुभवन् । कम् ? इमकं बन्धुहेतुत्वात् कुत्सितमिमं विषयं स्पर्शादिकम् । कथं कृत्वा ? व्यात्तरागारतिमुखं प्रसारितरागद्वेषोल्लेखम् । किं क्रियमाणम् । यथास्वमुद्गीर्यमाणम् यथायथमुपयुज्योद्वम्यमानम् । कैः ? एभिः प्रतीयमानैरक्षः स्पर्शनादीन्द्रियैः । कथं कृत्वा ? पायंपायं पीत्वा पीत्वा । कस्मात् ? लौल्याला. म्पट्यात् । कथम् ? यद्वद् यथा लतान्तात्पुष्पाद् रसं मकरन्दमलिभिर्भमरैरसृग्वा रुधिरं व्रणाद् रक्तपाभिर्जलूकाभिः पायं पायमुद्गीर्यमाणं तथाप्रशस्तमप्रशस्तं च विषयं स्वाधिकरणापायं पायमझेरुवीर्यमाणमित्यर्थः । कीदृशैः ? अघमयैः पापप्रचुरैस्त्रिभिरपि ॥ _इन्द्रियद्वारैरनाद्यविद्यावासनावशादसकृदुद्भिद्यमानदुराशस्य चित्तस्य विपयाभिष्वङ्गमुत्सारयन् परमपदप्रतिष्ठायोग्यताविधिमुपदिशति
तत्तद्गोचरभुक्तये निजमुखप्रेक्षीण्यमूनीन्द्रिया,-- ण्यासेदु क्रियसेऽभिमानधन भोश्चेतः कयाऽविद्यया। पूर्या विश्वचरी कृतिन् किमिमकै रङ्गैस्तवाशा ततो, विश्वैश्वर्यचणे सजत्सवितरि स्वे यौवराज्यं भज ॥ ४२ ॥ १-चित्ते वद्धे बद्धो मुक्ते मुक्तश्च नास्ति संदेहः ।
आत्मा विमलस्वभावो...............।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org