SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ ४०२ अनगारधर्मामृते कम् ? माम् । कैः ? करणद्वारैरिन्द्रियमुखैः । किं कृत्वा ? विधाय उत्पाद्य । काम् ? इष्टद्विष्टधियम् । कस्य ? मे मम चिदाद्यात्मनः इदं मे इष्टमिच्छया विषयीकृतम्, इदं द्वेषेण विषयीकृतमिति बुद्धिं जनयित्वेत्यर्थः । क? बहिर्वस्तुनि । कीदृशे ? इहास्मिन् इन्द्रियैः प्रतीयमाने । कथम् ? अभीक्ष्णमसकृत् । वस्तुतः कीदृशेस्मिन् ? उपेक्षणीये मध्यस्थभावगम्ये । तथा चोक्तम् स्वयमिष्टं न च द्विष्टं किंतूपेक्ष्यमिदं जगत् । नाहमेष्टा न च द्वेष्टा किंतु स्वयमुपेक्षिता॥ पुनः किं कुर्वत्त्वम् ? स्फूर्जत् तत्तद्विषयग्रहणव्याकुलं भवत् । क्व ? इहास्मिन्नागमप्रसिद्ध हृत्पङ्कजे द्रव्यमनसि । यथेन्द्रराजः उर्वइट्ट अट्ठदलं संकुइयं हिययसरवरुप्पण्णं । जो य रवितेयतवियं विहस्सए झत्तिकं दुहुँ । पङ्कादङ्गोपाङ्गनामकर्माख्यपापाजातं पङ्कजम् । हृच तत्पङ्कजं च हृत्पङ्क. जम् । तस्मिन् स्फूर्जत्त्वम् । इत्यपि वक्रभणित्या व्याख्येयम् । कुर्या इत्यत्राहं गर्हे अन्याय्यमेतदिति सप्तम्या द्योत्यते। "किंवृत्ते लिङ्लटौ" इति गई लिङ । अत्र समर्थनमाह-अथवा युक्तमेतत् । किं वस्त्वदुष्टमपि न दृष्येत विकृतं न क्रियेत । कैः ? दुष्टैर्विकृतैः । सर्व शुद्धमप्यशुद्धैरन्यथा क्रियते इत्यर्थः । चित्तेन हि पापकर्मणा द्रव्यमनसि विलसता सकलविकल्पशून्योपि चेतनो नानाविकल्पजालजटिलः क्रियते इति भावः ॥ अन्तरात्मनः परमाभिजातत्वाभिमानमुद्बोधयन्नुपालम्भगी शिक्षा प्रयच्छन्नाह पुत्रो यद्यन्तरात्मनसि खलु परमब्रह्मणस्तकिम:, लौंल्याद्यदल्लतान्ताद्रसमलिभिरमृग्रक्तपाभित्रणाद्वा । पायं पायं यथास्वं विषयमघमयैरेभिरुद्गीर्यमाणं, भुञ्जानो व्यात्तरागारतिमुखमिमकं हंस्यमा खं सवित्रा ४१ १-उपदिष्टमष्टदलं संकुचितं हृदयसरोवरोत्पन्नम् । यच रवितेजस्तप्तं विह............... ॥ Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy