________________
षष्ठोऽध्यायः।
४०१
इन्द्रियाणां प्रवृत्तौ च निवृत्तौ च मनः प्रभुः। मन एव जयेत्तस्माजिते तस्मिन् जितेन्द्रियः ॥ इतीन्द्रियसंयमासिद्ध्यर्थं मनः संयमयितुं मुमुक्षुरुपक्रमतेचिदृग्धीर्मुदुपेक्षितामि तदहो चित्तेह हृत्पङ्कजे, स्फूर्जत्त्वं किमुपेक्षणीय इह मेऽभीक्ष्णं बहिर्वस्तुनि । इष्टद्विष्टधियं विधाय करणद्वारैरभिस्फारयन् , मां कुर्याः सुखदुःखदुर्मतिमयं दुष्टैन दृष्येत किम् ॥४०॥ अस्मि भवाम्यहम् । किंविशिष्टः ? चित् । चेतति संवेदयते स्वरूपं पररूपं चेति चित् स्वपरप्रकाशात्मकोऽयमहमस्मि प्रमाणादेशात् । तथास्म्यहम्। किविशिष्टः ? दृक् । पश्यत्यनुभवति स्वरूपमात्रमिति दृक् स्वात्मोपलब्धिरूपोयमहमस्मि शुद्धनिश्चयनयादेशात् । तथास्म्यहम् । किंविशिष्टः ? धीः । ध्यायत्यनन्यपरतयोपलभते परस्वरूपमिति धीः परस्वरूपोपलब्धिरूपोऽयमहमस्मि । तत एव मुत्। मोदतेन्तर्बहिर्विकल्पजालविलयादात्मनि विश्रान्तत्वादाल्हादते इति मुत् शुद्धस्वात्मानुभूतिमयात्यन्तसुखस्वभावोयमहमस्मि निश्चयनयादेशादेव । तथास्म्यहम् । किं विशिष्टः ? उपेक्षिता। उपेक्षते खरूपे पररूपे च कचिदपि न रज्यति न च द्वेष्टि इति उपेक्षाशील: परमौदासीनज्ञानमयोऽयमहमस्मि च तत एव । तथा चोक्तम्
सद्रव्यमस्मि चिदहं ज्ञाता द्रष्टा सदाप्युदासीनः । स्वोपात्तदेहमात्रस्ततः पृथग्गगनवदमूर्तः ॥ यत एवं तत् तस्मादहो चित्त भो मनः, किं कुर्याः ? किं विदध्या. स्त्वम् । कम् ? मां चिदादिरूपमात्मानम् । कीदृशम् ? सुखदुःखदुर्मतिमयम् अहं सुखी अहं दुःखीति मिथ्याज्ञानपरिणतम् । तथा चोक्तम्
वासनामात्रमेवैतत् सुखं दुःखं च देहिनाम् । तथा छुद्वेअयन्त्येते भोगा रोगा इवापदि ॥ किं कुर्वत् ? अभिस्फारयदभिमुखेन तत्तद्विषयोपभोगपरं कुर्वत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org