________________
अनगारधर्मामृते
स्वामिन्पृच्छ वनद्विपान्नियमितानाथाश्रुपिल्ला झषीः, पश्याधीश विदन्त्यमी रविकराः प्रायः प्रभोग्नेः सखा । किं दूरेधिपते क पकणभुवां दौःस्थित्यमित्येकशः, प्रत्युप्तप्रभुशक्ति खैरिव जगद्धावनिरन्ध्यान्मनः ॥ ३९ ॥ निरन्ध्यान्नियन्त्रयेन्मारयेद्वा शिवार्थी । किं तत् ? मनश्चित्तम् । किं कुर्वत् ? धाव वेगेन गच्छत् । किं तत् ? जगद्विश्वम् । किं विशिष्टम् मनः ? प्रत्युप्तप्रभुशक्ति प्रतिरोपिताप्रतिविधेयसामर्थ्यम् । प्रभुशक्तिर्हि जिगीषोः कोषदण्डबलमुच्यते। कैः ? खैः स्पर्शनादीन्द्रियैः । कथम् ? एकशः प्रत्येकम् ? एकैकेनेत्यर्थः । कथमिव ? इतीव । इवेति वाक्यार्थीस्प्रेक्षायाम् । तामेव दर्शयति । तत्र तावत्स्पर्शनेन्द्रियं मनः प्रति स्वसामर्थ प्रकाशयति । हेस्वा मिन् , पृच्छ अनुयुक्ष्व त्वम् । कान् ? वनद्विपान् आरण्यककरिणः । किंविशिष्टान् ? नियमितान् स्तम्भेषु बद्धान् । कुलीनानां हि स्वावदानविकत्थनं त्रपायै स्यात् । अत्र हस्तिनीस्पर्शदोषो व्यङ्ग्यः । एवमुत्तरत्रापि यथाक्रमं रसगन्धवर्णशब्दाश्चिन्त्याः ॥ अथ रसनेन्द्रियं वक्तिहे नाथ स्वामिन् , पश्य अवलोकय त्वम् । काः ? झषीमत्स्यपत्नीः । किंविशिष्टाः ? अश्रुपिल्ला वाष्पजलैः क्लिन्ननेत्राः । किमत्र मे स्वौद्भट्यक. नेन । अत्र वडिशरसास्वादनलम्पटपत्तिमरणदुःखं व्यङ्गयम् ॥ अथ घ्राणेन्द्रिय. माह-अधीश हे स्वामिन् , विदन्ति जानन्ति । के ? अमी एते रविकराः सूर्यरश्मयः । कथम् ? प्रायो बाहुल्येन । किमत्र मे स्वकृत्त्यकथनेन । अत्र कमलकोशे गन्धलुब्धभ्रमरमरणं व्यङ्ग्यम् ॥ अथ चक्षुरिन्द्रियमाचष्टे-हे प्रभो स्वामिन्, किं किं वर्तते । कोसौ ? अग्नेः सखा वायुः । क ? दरे विप्रकृष्टे यदहं ब्रवीमि । वायुरेव मत्कृत्यं प्रष्टव्यस्तस्य सदा सर्वगत्वेन मत्पुरुषाकारे साक्षित्वात् । अत्र रूपालोकनोत्सुकपतङ्गमरणं व्यङ्ग्यं । अथ श्रोत्रे. न्द्रियं वदति-हे अधिपते स्वामिन् , क कस्मिन् देशे विद्यते । किं तत् ! दौःस्थित्यं कृच्छ्रजीवनम् । केषाम् ? पक्कणभुवां पक्कणेषु शबरालयेषु भव. न्तीति पक्कणभुवः शबरास्तेषाम् । सर्वत्र शवराः सुखजीविका यद् दृश्यन्ते स कस्यानुभाव इति भावः । अत्र गीतध्वनिलुब्धमृगवधो व्यङ्ग्यः॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org