________________
षष्ठोऽध्यायः।
३९९
तथा स्वमपसारयन्नुत नुदन् सुपिच्छेन तान्, स्वतस्तदुपमेन वापहृतसंयमं भावयेत् ॥ ३८॥ सुधीः समीक्ष्यकारी मुमुक्षुर्भावयेदभ्यस्येत् । किम् ? अपहृतसंयमम् । कस्यै ? समरसाप्तये उपेक्षासंयमलब्ध्यर्थम् । किं कुर्वन् ? विमुखयन् पराङ्मुखं कुर्वन् । किं तत् ? खं स्पर्शनादीन्द्रियम् । कस्मात् ? अर्थात् स्पर्शादिविषयात् । किंविशिष्टात् ? मनस्तुदो रागद्वेषोद्भावनेन चित्तक्षोभकरात् । मनस्तुदति व्यथते इति मनस्तुत् । एष उत्तमइन्द्रियसंयमः । अथ अथवा सुधीः समरसाप्तयेऽपहृतसंयमं भावयेत् । किं कुर्वन् ? दवयन् दूरीकुर्वन् । इन्द्रियग्रहणायोग्यं कुर्वन्नित्यर्थः । कम् ? तं मनस्तुदमर्थम् । केन ? स्वयमात्मना । एष मध्यम इन्द्रियसंयमः। वा अथवा सुधीरपहृतसंयमं भावयेत् । किं कुर्वन् ? दवयन् । कम् ? तम् । केन ? अपरेण गुर्वा दिना । एष जघन्य इन्द्रियसंयमः। तथा सुधीः समरसाप्तये. ऽपहृतसंयमं भावयेत् । किं कुर्वन् ? अपसारयन् व्यावर्तयन् । कम् ? स्वमात्मानम् । केभ्यः ? प्राणितः स्वयमुपस्थितेभ्यः प्राणिभ्यः । अयमुसमप्राणिसंयमः । उत अथवा सुधीरपहृतसंयमं भावयेत् । किं कुर्वन् ? नुदन् प्रेरयन् प्रतिलिखन् । कान् ? तान् प्राणिनः । कस्मात् ? स्वत आत्मीयाच्छरीरादेः । केन ? सुपिच्छेन पञ्चगुणोपेतप्रतिलेखनेन । तदुक्तम्
रजसे दाणमगहणं मद्दवसुकुमालदालहुत्तं च।
जत्थेदे पंच गुणा तं पडिलिहणं पसंसंति ॥ अयं मध्यमः प्राणिसंयमः॥ वा अथवा सुधीरपहृतसंयमं भावयेत् । किं कुर्वन् ? तान् स्वतो नुदन् । केन ? तदुपमेन सुपिच्छालाभे तदाभासेन मृदुवस्त्रादिना वा । अयं जघन्यः प्राणिसंयमः ॥
अस्वतंत्रं बहिर्मन इत्युररीकृत्य स्वस्व विषयापायप्राचण्ड्यप्रदर्शनपरैः स्पर्शनादीन्द्रियैरेकशः सामर्थ्यप्रत्यापादनाजगति स्वैरं त्वरमाणस्य मनसो निरोधं कर्तव्यतयोपदिशति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org