________________
३९८
अनगारधर्मामृते
__ यत्सत्यं मतमिष्टं शिष्टैः । किंविशिष्टम् ? बह्वपि । केषु विषयेषु ? सत्सु प्रागुक्तलक्षणेषु । न केवलमसत्सु च तद्विलक्षणेषु । बह्वपीति सामर्थ्यलब्धमत्र योज्यम् । कस्मिन्विषये ? असत्यविरतावनृतविरतिमहानते। तद्धि तदेव सत्यं मतम् । किं यत् ? मितमल्पं सत्स्वसत्सु च । कस्याम् ? वाक्समित्यां भाषासमितौ तदेव सत्यं मतम् । कियत् ? बह्वपि प्रभूतम् । अपिशब्दात्स्तोकं च । केषु ? सत्स्वेव नासत्सु । क ? धर्मे सत्स्वसत्सु च बह्वप्युच्यमानं व्रतसत्यम् । सत्स्वसत्सु च मितमुच्यमानं समितिसत्यम् । सत्स्वेव प्रभूतमल्पं चोच्यमानं धर्मसत्यमित्यर्थः । इति सत्यप्ररूपणम् ।
अथ संयमलक्षणं धर्म व्याचिख्यासुस्त दयोरुपेक्षाऽपहृतसंयमयोर्मध्ये केचिदुत्तरं समितिषु वर्तमानाः पालयन्तीत्युपदिशतिप्राणेन्द्रियपरीहाररूपेपहृतसंयमे । शक्यक्रियप्रियफले समिताः केपि जाग्रति ॥३७॥ केपि केचिदैदंयुगीनाः समिताः समितिषु वर्तमाना जाग्रति प्रमादपरिहारेण वर्तन्ते । क ? अपहृतसंयमे । किंविशिष्टे ? प्राणीन्द्रियपरीहाररूपे प्राणिनां त्रसस्थावरजीवानां परीहारः पीडावर्जनमिन्द्रियाणां स्पर्शनादीनामनिन्द्रियस्य च परीहारो निजनिजविषयप्रवृत्तिनिरोधः । तद्वि. षया यथा
पश्चरस पश्चवण्णा दोगंधा अट्ट फास सत्तसरा। मणसहिद अट्ठवीसा इन्दियविसया मुणेयव्वा ॥ प्राणिनश्चेन्द्रियाणि च प्राणीन्द्रियाणि तेषां परीहार एव रूपं यस्य स एवम् । पुनः किंविशिष्टे ? शक्यक्रियप्रियफले शक्या शक्तिगम्या क्रियाऽनुष्ठानं यस्य तच्छक्यक्रियं कर्तुं शक्यं प्रियमिष्टं फलं प्रयोजनमुपेक्षासंयमलक्षणं यस्य स एवम् । शक्यानुष्ठान इष्टप्रयोजनश्चेत्यर्थः ॥
द्विविधस्याप्यपहृतसंयमस्योत्तममध्यमजघन्यभेदाः त्रैविध्यमालम्बमानस्य भावनायां प्रयोजयति
सुधीः समरसाप्तये विमुखयन् खमन्मिन,स्तुदोथ दवयन्स्वयं तमपरेण वा प्राणितः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org