________________
षष्ठोऽध्यायः ।
३९७
नाबलेन निर्मूल्य शुक्लध्यानविशेषावष्टम्भाज्जीवन्मुक्तिमवाप्नोति ॥ इत्युत्तमक्षमाद्यनुभावानुवर्णनप्रकरणम् ।
अथ सत्यलक्षणस्य धर्मस्य लक्षणोपलक्षणपूर्वकमनुभावमाहकूटस्थस्फुट विश्वरूप परमब्रह्मोन्मुखाः सम्मताः, सन्तस्तेषु च साधुसत्यमुदितं तत्तीर्णसूत्रार्णवैः । आ शुश्रूषुतमः क्षयात्करुणया वाच्यं सदा धार्मिकै,घराज्ञानविषार्दितस्य जगतस्तद्ध्येकमुज्जीवनम् ||३५||
संमताः सम्यङ्मन्यन्ते स्म शिष्टैः । के ? सन्तः । किंविशिष्टाः ? कूटस्थेत्यादि । कूटस्थानि द्रव्यरूपतया नित्यानि स्फुटानि स्पष्टसंवेदनवेद्यानि विश्वरूपाणि चराचरस्य जगतोतीतानागतवर्तमानानन्त पर्यायाकाराः । यदवोचत्स्वयमेव स्तुतिषु -
सर्वदा सर्वथा सर्वे यत्र भाति निखातवत् । तज्ज्ञानात्मानमात्मानं जानानस्तद्भवाम्यहम् ॥
कूटस्थानि स्फुटानि विश्वरूपाणि यस्मिन्तत् कूटस्थस्फुट विश्वरूपम् । तच तत्परमब्रह्म च प्रत्यग्ज्योतिः कूटस्थस्फुटविश्वरूपपरमब्रह्म । तस्योपु खास्तेन परिणन्तुमुद्युक्ता ये त एवम् । तेषु च सत्सु साधूपकारकमुदितं वचनं सत्यं संमतं, सत्सु साधु सत्यमिति निरुक्तविषयत्वात् । तत्सत्यं वाच्यं वक्तव्यं सदा सर्वदा । कैः ? धार्मिकैर्धर्मं चरद्भिः । किंविशिष्टैः ? तीर्णसूत्रार्णवैः। तीर्णः सूत्रार्णवो येस्तैः । प्रवचनसमुद्रपारदृश्वभिरित्यर्थः । कथम् ? आ । कस्मात् ? शुश्रूषुतमः क्षयात् श्रोतुमिच्छूनामज्ञानस्य नाशं यावत् । कया ? करुणया दुःखोच्छित्तिवाञ्छया । अन्न समर्थनमाहहि यस्माद्भवति । किम् ? तत् सत्यं वचः । किंविशिष्टम् ? एकमुत्कृष्टमुज्जीवनमुद्बोधकम् । कस्य ? जगतो बहिरात्मप्राणिगणस्य । किंविशिष्टस्य ? घोराज्ञानविषार्दितस्य । दारुणदुर्योधग लाभिभूतस्य ॥
व्रतादित्रयविषयस्य सत्यस्य लक्षणविभागार्थमाहअसत्यविरतौ सत्यं सत्स्वसत्स्वपि यन्मतम् । वाक्समित्यां मितं तद्धि धर्मे सत्स्वेव बह्वपि ॥ ३६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org