________________
३९६
अनगारधर्मामृते
पढमो दंसणधाई बिदियो तह देसविरदिधाई य ।
तदिओ संजमधाई चउत्थो जहक्खादघाई य॥ पक्षे उत्कृष्टमध्यमापकृष्टप्रतापान् । पुनः किंविशिष्टान् ? समित्यादि । संख्यातादीनि संख्यातान्यसंख्यातान्यनन्तानि च । संख्यातादीनि च तानि भवान्तराणि च भाविजन्मानि संख्यादिभवान्तराणि । अब्ददलं संवत्सराधम् । षण्मासमित्यर्थः । पक्षो मासार्धम् । पञ्चदशाहोरात्रा इत्यर्थः । अन्तर्मुहूर्तः किंचिदूननाडीद्वयम् । संख्यातादिभवान्तराणि चाब्ददलं च पक्षश्चान्तर्मुहूर्तश्च संख्यातादिभवान्तराब्ददलपक्षान्तर्मुहूर्तास्तान् । तावत्कालमाशयो वासना संस्कारो येषां ते तथोक्ताः । तत्रानन्तानुबन्धिनः क्रोधादयः संख्यातादिभवान्तरस्थायिवासनाः । अप्रत्याख्यानावरणाः षण्मासस्थायिवासनाः । प्रत्याख्यानावरणाः पक्षस्थायिवासनाः । संज्वलना अन्तर्मुहूर्तस्थायिवासनाः । उक्तं च
अन्तोमुंहुत्त पक्खं छम्मासं संखसंखणन्तभवं ।
संजलणमादियाणं वासणकालो दु णियमेण ॥ पक्षे उत्कृष्टमध्यमापकृष्टवैरानुबन्धान् । पुनरपि किंविशिष्टान् ? हास्यादिसैन्यानुगान् । हास्यादयो हास्यरत्यरतिशोकभयजुगुप्सास्त्रीवेद. पुंवेदनपुंसकवेदा नव नोकषायाः सैन्याः सैनिका इव, तदधीनवृत्तित्वात् । हास्यादिसैन्या अनुगा अनुचरा येषां ते तथोक्ताः । इदमत्र तात्पर्यम्यथा कश्चिद्विजिगीषुरुत्कृष्टादिशक्तीनुत्कृष्टादिवैरानुबन्धान् सेनाचरानुचरसनाथान् प्रतिपक्षान् दिक्चतुष्टयवर्तिनश्चक्राद्यायुधैः प्रतिहत्य योगक्षेमौ बिभ्राणश्चक्रवर्ती भवति तथा कश्चिद्भव्योनन्तानुबन्ध्यादिक्रोधादीन् संख्यातादिभवान्तरादिस्थायिवासनान् हास्यादिभिरन्वीयमानानुत्तमक्षमादिभाव
१-प्रथमो दर्शनघाती द्वितीयस्तथा देशविरतधाती च ।
तृतीयः संयमघाती चतुर्थो यथाख्यातघाती च ॥ २–अन्तर्मुहूर्तः पक्षः षण्मासाः संख्यासंख्यानन्तभवाः।
संज्वलनादिकानां वासनाकालस्तु नियमेन ॥ ( गोम० जीवकाण्डे )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org