________________
षष्ठोऽध्यायः ।
संख्यातादिभवान्तराब्ददलपक्षान्तर्मुहूर्ताशयान्, दृग्देशव्रतवृत्त साम्यमथनान् हास्यादिसैन्यानुगान् । यः क्रोधादिरिपून् रुणद्धि चतुरोप्युद्धक्षमाद्यायुधै, - योगक्षेमयुतेन तेन सकल श्री भूयमीषल्लभम् ॥ ३४ ॥
1
ईषल्लभमनायासेन लभ्यते । किं तत् ? सकलश्रीभूयम् । सह कलया शरीरेण वर्तेते इति सकले सशरीरे | सकले श्रियावन्तरङ्गबहिरङ्गानन्तज्ञानादिचतुष्टय समवसरणादिविभूती यस्यासौ सकलश्रीर्जीवन्मुक्तः । पक्षे सकला अर्धचत्रयपेक्षया समग्रा षदखण्डभूम्याधिपत्यलक्षणा श्रीक्ष्मीर्यस्य सोयं सकलश्रीचक्रवर्ती | सकलनियो भवनं सकलश्रीभूयम् । जीवन्मुक्तत्वं चक्रवर्तित्वं चेत्यर्थः । केन ? तेन । किंविशिष्टेन ? योगक्षेमयुतेन । योगः समाधिः । स चेह शुक्लध्यानं, कषायनिरोधाविनाभावि - त्वात् “ शुचिगुणयोगाच्छुक्कं कषायरजसः क्षयादुपशमाद्वा" इति वचनात् । योगस्य क्षेमोऽनुपघातः, क्षपकश्रेणीप्रभवत्वाद्, योगक्षेमः योगक्षेमेण युतः एकलोली भावमापन्नः । एकत्व वितर्कवीचारशुक्लध्याननिष्ठ इत्यर्थः । उक्तं च
1
निर्विचारावतारासु चेतःश्रोतः प्रवर्तिषु ।
आत्मन्येव स्फुरन्नात्मा तत्स्याद्ध्यानमवीजकम् ॥
३९५
पक्षेऽलब्धलाभलब्धपरिरक्षणसहितेन । यः किम् ? यो रुणद्धि प्रतिबध्नाति । कान् ? क्रोधादिरिपून् । क्रोधादयो रिपवः शत्रव इवेष्टार्थप्रतिबन्धकत्वात् । कति ? चतुरोपि चतुःसंख्यान् । पक्षे दिक्चतुष्टयवर्तिनश्च न पुनरेकद्वित्रीणीत्यपिशब्दार्थः । कैः ? उद्धक्षमाद्यायुधैः । उद्धानि लाभ पूजा ख्याति निरपेक्षतयोत्तमानि । तानि च तानि क्षमादीनि । उदूधक्षमादीन्यायुधानि चक्रादिप्रहरणानीव शत्रूणामिव क्रोधादीनां प्रतिहन्तृत्वात् । किंविशिष्टान् ? दृग्देशव्रतवृत्तसाम्यमथनान् यथाक्रममनन्तानुबन्ध्यप्रत्याख्यानावरणप्रत्याख्यानावरणसंज्वलनसंज्ञान् । दृक् सम्यक्त्वम् । देशव्रतमणुव्रतम् । वृत्तं महाव्रतम् । साम्यं यथाख्यातचारित्रम् | तेषां मथनानू घातकान् उक्तं च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org