________________
३९४
अनगारधर्मामृते
ख्यानावरणत्वप्रत्याख्यानावरणत्वसंज्वलनत्वशक्तिलक्षणाभिश्चतसृभिरवस्थाभिः क्रोधो नरकगतिं तिर्यग्गतिं मनुप्यगतिं देवगतिं च यथाक्रमं करोति । तथाऽश्मस्तम्भास्थिकाष्ठवेत्रकवत् पाषाणस्तम्भकीकशदारुवेत्रलतातु. ल्याभिरनन्तानुबन्धित्वादिशक्तिलक्षणाभिश्चतसृभिरवस्थाभिर्मानो नरकगति तिर्यग्गतिं मनुष्यगतिं देवगतिं च यथाक्रमं करोति । तथा वंशा. शिमेषशृङ्गोक्षमूत्रचामरवद् वंशमूलाऽविशृङ्गगोमूत्रचमरीकेशतुल्याभिरनन्तानुबन्धित्वादिशक्तिलक्षणाभिश्चतसृभिरवस्थाभिर्माया नरकगतिं तिर्यगतिं मनुष्यगति देवगतिं च यथाक्रमं करोति । तथा क्रिमिचक्रकायमलरजनीरागवत कृमिरागघ्राणककिट्टिकाशरीरमलहरिद्रारागतुल्या भिरनन्तानुबन्धित्वादिशक्तिलक्षणाभिश्चतसृभिरवस्थाभिर्लोभो नरकगतिं तियंग्गतिं मनुष्यगतिं देवगतिं च यथाक्रमं करोति । अपि चेति समु. चये । दृषच्चावनिश्च रजश्चापश्च दृषदवनिरजआपः । दृषदवनिरजोऽपां राजयो रेखा दृषदवनिरजोवाजयः । ताभिस्तुल्यं दृषदादिराजिवत् । अश्मस्तम्भश्च अस्थि च काष्ठं च वेत्रकश्च ( अल्पो वेत्रो वेत्रकः सुकुमारवेत्रो वेत्रलतेति यावत्) अश्मस्तम्भास्थिकाष्ठवेत्रकाः । तैस्तुल्यं तद्वत् । वंशाडि श्च मेषशृङ्गं चोक्षमूत्रं च गच्छवृषभप्रस्रवश्चामरं च तानि । तैस्तुल्यं तद्वत्। क्रिमिशब्देनात्र क्रिमिरागो गृह्यते । चक्रं च कायश्च चक्रकायौ चक्रकाययोमलौ चक्रकायमलौ । क्रिमिश्च चक्रकायमलौ च घ्राणकिटिकाशरीरमली, रजनी च हरिद्रा=क्रिमिचक्रकायमलरजन्यः । तासां रागो रंजनपर्यायः । तेन तुल्यं तद्वत् । क्रिमिरागः क्रिमिवान्तरक्ताहारः । तद्वंजितोर्णातन्तुनिपादितो हि कम्बलो दग्धावस्थोपि न विरज्येत । तत्र यथा-शिला भिन्ना सती पुनरुपायशतेनापि न संयुज्यते तथानन्तानुबन्धिना क्रोधेन विघटितं चित्तं मनः । यथा च पृथ्वी विदीर्णा सति महोपक्रमेण पुनर्मिलति तथाऽ. प्रत्याख्यानेन विघटितं चेतः । यथा च धूली रेखाकारेण मध्ये भिन्ना अल्पेनाप्युपक्रमेण पुनर्मिलति तथा प्रत्याख्यानेन विघटितं चित्तम् । यथा च जलं यध्यादिना मध्ये छेद्यमानं स्वयमेव निःसंधिबन्धं मिलति तथा संज्वलनेन विघटितं चित्तम् । इत्युपमानार्थः । एवमुत्तरेष्वपि यथास्वमसौ व्याख्येयः ॥
उत्तमक्षमादिभिः क्रोधादीन् जितवतः शुक्लध्यानबलेन जीवन्मुक्तिः सुलभेत्युपदिशति
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org