SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ षष्ठोऽध्यायः। कार्तवीर्यः । केन ? तत्सूनुना जमदग्निपुत्रेण । किन्नाम्ना ? रामेण परशुरामनाम्ना । केन ? परशुना परश्वधेन । कया? क्रुधा क्रोधेन । किं केवलः ? नेत्याह-सान्वयसाधनः संतानसैन्यसहितः। कस्मात् ? अचिरात् सपदि । किंविशिष्टो यतः ? स्वीकृतकामधेनुः स्वायत्तीकृतसुरसुरभिः । किं कृत्वा ? हत्त्वा मारयित्वा । कम् ? ऋषि वानप्रस्थाश्रमिणम् । किंनामानम् ? जमदग्निम् । किंविशिष्टम् ? इष्टिनम् । इष्ट आतिथेयाध्वरोनेनेति विगृह्य "इष्टादेः" इतीन् । क ? अतिथेयाध्वरे । अतिथौ साधुरा. तिथेयः । आतिथेयश्वासावध्वरश्च यज्ञः अतिथेयाध्वरस्तस्मिन् । कस्य संब. धिनि ? स्वस्य कार्तवीर्यात्मनः । किंविशिष्टे ? तादृक्षे सकललोकचित्तचमत्कारिणि ॥ इत्युत्तमशौचभावनाप्रकरणम् । अथानन्तानुबन्ध्यप्रत्याख्यानावरणप्रत्याख्यानावरणसंज्वलनसंज्ञिकाः क्रोधमानमायालोभानां प्रत्येकं चतनोवस्था दृष्टान्तविशेषैः स्पष्टयन् क्रमेण तत्फलान्यार्याद्वयेनोपदिशति दृशदवनिरजोऽब्राजिवदश्मस्तम्भास्थिकाष्ठवेत्रकवत् । वंशाझिमेषशृङ्गोक्षमूत्रचामरवदनुपूर्वम् ॥ ३२ ॥ क्रिमिचक्रकायमलरजनिरागवदपि च पृथगवस्थाभिः। क्रुन्मानदम्भलोभा नारकतिर्यन्नृसुरगतीः कुर्युः ॥३३॥ (युग्मम्) - कुर्युर्विदध्युः । के ? क्रुन्मानदम्भलोभाः। क्रुत् क्रोधः । दम्भो माया। क्रुच मानश्च दम्भश्च लोभश्च त एवम् । काः ? नारकतिर्यसुरगतीः । यदुदयाजीवो नारकादिरुच्यते सा गतिः । नारकश्च तिर्यङ्च ना च सुरश्व नारकतिर्यङनृसुराः । तेषां गतयस्तद्गतयस्तास्तद्गतीः । काभिः ? अवस्थाभिः सर्वोत्कृष्टहीनहीनतरहीनतमोदयरूपाभिरनन्तानुबन्ध्यादिशक्तिभिः । कथम्? अनुपूर्व यथाक्रमम् । कथम् ? पृथक् प्रत्येकम् । किंवत् ? दृषदवनिर. जोऽब्राजिवत् शिलापृथ्वीधूलीजलरेस्नातुल्याभिरनन्तानुबन्धित्वाप्रत्या. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy