SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृते इष्टे ध्येये स्थिरा बुद्धिर्या स्यात्सन्तानवर्तिनी । ज्ञानान्तरापरामृष्टा सा ध्यातिर्ध्यानमीरिता । ३.९२ कथंभूतो भूत्वा ? अद्येत्यादि । अद्य इदानीमुद्यती आरोहन्ती विद्या आत्मदेहान्तरज्ञानमद्योद्यद्विद्या । तस्या दृतिरन्तः सारनिर्यासोऽद्योद्यद्विद्यादृतिः । सा चासौ धृतिश्च संतोषः । सैव सुधाऽमृतम् । तस्या आस्वादोऽसकृदभ्यासः । तेन हृतो निगृहीतस्तृङ्गरो येन यस्य वा सोऽद्योद्यद्विद्याद्दतिधृति सुधास्वादहृततृङ्गरः । तृट् तृष्णा । तृडेव गरः कृत्रिमविषं वृङ्गरः ॥ I शौचमहिमानमभिष्टौति निर्लोभतां भगवतीमभिवन्दाम हे मुहुः । यत्प्रसादात्सतां विश्वं शश्वद्भातीन्द्रजालवत् ॥ ३० ॥ अभिवन्दाम हेऽभिमुखं नमस्कुर्महे स्तुमहे वा वयम् । काम् ? निर्लोभतां प्रकर्षप्राप्तलोभनिवृत्तिम् । किंविशिष्टाम् ? भगवतीं पूज्यां, यथाख्यातचारित्रस्य महद्भिरपि पूज्यत्वात् । कथम् ? मुहुर्वारं वारम् । यत्प्रसादाद् यस्या अनुग्रहाद्भाति आत्मानं दर्शयति । किं तत् ? विश्वं चराचरं जगत् । किंवत् ? इन्द्रजालवदिन्द्रजालेन तुल्यमनुपभोग्यत्वात् । केषाम् ? सतां शुद्धोपयोग निष्ठानां साधूनाम् । कथम् ? शश्वदजस्रम् ॥ लोभमाहात्म्यमुपाख्यानमुखेन ख्यापयन्नाह - तादृक्षे जमदग्निमिष्टिनमृषिं स्वस्यातिथेयाध्वरे, हत्वा स्वीकृतकामधेनुरचिराद्यत्कार्तवीर्यः क्रुधा । जने सान्वयसाधनः परशुना रामेण तत्सूनुना, तद्दुर्दण्डित इत्यपाति निरये लोभेन मन्ये हठात् ॥ ३१ ॥ 1 मन्ये अहमेवं जाने । अपाति पातितः प्रवेशितः । कोसौ ? कार्तवीर्यः । केन ? लोभेन । क्व ? निरये नरके । कथं कृत्वा ? दुर्दण्डित इति । अयथादोषं कृतदण्डो दुर्दण्डितोयमिति निश्चित्येत्यर्थः । कस्मात् ? हठाद् बलात्कारात् । कथम् ? तत् । यत्किम् ? यज्जने हतः । कोसौ ? Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy