________________
षष्ठोऽध्यायः।
३९१ लोभविजयोपायसेवायां शिवार्थिनः सजयन्नाहप्राणेशमनु मायाम्बां मरिष्यन्तीं विलम्बयन् । लोभो निशुम्भ्यते येन तद्भजेच्छौचदैवतम् ॥ २८॥ शौचं प्रकर्षप्राप्ता लोभनिवृत्तिः मनोगुप्तौ मनसः परिस्पन्दः सकल: प्रतिषिध्यते । तत्राक्षमस्य परवस्तुष्वनिष्टप्रणिधानोपरमः शौचमिति । ततोस्य भेदः । शौचमेव दैवतमाश्रितपक्षपातित्वात् । तच्छौचदैवतं मुमुक्षुर्भजेत् सेवेत । येन किम् ? येन निशुम्भ्यते निगृह्यते । कोसौ ? लोभः । किं कुर्वन् ? विलम्बयन्नवस्थापयन् । काम् ? मायाम्बा वञ्चनामातरम् । किं करिष्यन्तीम् ? मरिष्यन्तीं मर्तुमिच्छन्तीम् । कथम् ? अनु सह । कम् ? प्राणेशं स्वपराभेदप्रस्ययलक्षणं मोहं भर्तारं च । नारी हि स्वभा सह मर्तुकामा पुत्रेण धार्यते इत्युक्तिलेशः॥ संतोषाभ्यासान्निरस्ततृष्णस्यात्मध्यानोपयोगोद्योगमुद्द्योतयन्नाहअविद्यासंस्कारप्रगुणकरणग्रामशरणः परद्रव्यं गृध्नुः कथमहमधोधश्विरमगाम् । तदद्योद्यद्विद्यातिधृतिसुधास्वादहतत्,गरः स्वध्यात्योपयुपरि विहराम्येष सततम् ॥ २९ ॥ कथमिति सखेदविस्मये । कथमगां गतः । कोसौ ? अहम् । क ? अधोधोऽधराधरत्र । नीचर्नीचैरित्यर्थः । कियत्कालम् ? चिरं संसारात्प्रभृति । किंविशिष्टः सन् ? गृवरभिलाषुकः । किं तत् ? परद्रव्यं शरीरादि । किंविशिष्टो यतः ? अविद्येत्यादि । अविद्या देहात्मनोरेकस्वप्रत्ययलक्षणो विभ्रमः। तजन्यः संस्कारो वासना अविद्यासंस्कारः तेन प्रगुणो विषयग्रहणाभिमुखः। स चासौ करणग्रामश्चेन्द्रियवर्गः । स एव शरणमाश्रयो यस्य सोहमविद्या. संस्कारप्रगुणकरणग्रामशरणः । यत एवं तत् तस्मादेष स्वसंवेदनप्रत्यक्षोहं विहरामि उपयुक्तो भवामि । क ? उपर्युपरि अर्ध्वमूर्ध्वम् । कथम् ? सततम् । कया ? स्वध्यात्या आत्मनि संतत्या वर्तमानया निर्विकल्पनिश्चलया बुद्ध्या । तदुक्तम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org