SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृते उपभोगेन्द्रियारोग्यप्राणान् स्वस्य परस्य च । गृध्यन् मुग्धः प्रबन्धेन किमकृत्यं करोति न ॥ २६ ॥ ३९० किमकृत्यं गुरुपितृवधादिकं मुग्धो मूढो जनः प्रबन्धेन सातत्येन न करोति, अपि तु सर्वं करोति । किं कुर्वन् ? गृध्यन् अभिकाङ्क्षन् । कान् ? उपभोगेन्द्रियारोग्यप्राणान् । कस्य ? स्वस्यात्मनः न केवलं, परस्य च कलत्रादेः । केन ? प्रबन्धेनाव्युच्छेदेन । प्रबन्धेनेत्युभयत्र संबन्धनीयम् । उपेत्य भुज्यते इत्युपभोग इष्टेन्द्रियार्थः । इन्द्रियं चक्षुरादि | आरोग्यं स्वास्थ्यम् । प्राणा जीवितम् । ततो मोहं निगृह्य लोभो निरसनीय इति विधौ वाक्यार्थः पर्यवस्यति । लोभपरतन्त्रस्य गुणभ्रंशं व्याचष्टे तावत्की स्पृहयति नरस्तावदन्वेति मैत्रीं, तावद्वृत्तं प्रथयति बिभर्त्याश्रितान् साधु तावत् । तावज्जानात्युपकृतमघाच्छङ्कते तावदुच्चै, स्तावन्मानं वहति न वशं याति लोभस्य यावत् ॥ २७ ॥ ▬▬▬▬▬▬▬▬▬▬▬▬▬▬ नरस्तावदिदमिदं करोति । यावत्किम् ? यावन्न याति न गच्छति । कम् ? वशं पारतन्त्र्यम् । कस्य ? लोभस्य । तदेव दर्शयति – स्पृहयति अभिलषति । कोसौ ? नरः पुरुषः । कस्यै ? कीर्त्यै यशसे । कथम् ? तावत् । तथा तावदन्वेति अविच्छेदेन वर्तयति नरः । काम् ? मैत्रीं सख्यम् । तथा तावन्नरः प्रथयति पृथूकरोति प्रकाशयति वा । किं तत् ? वृत्तं चारित्रम् । तथा तावन्नरो बिभर्त्ति पुष्णाति । कान् ? आश्रितान् प्रतिपन्नपरिग्रहान् । कथं कृत्वा ? साधु शोभनम् । तथा तावन्नरो जानाति स्मरति । किं तत् ? उपकृतं कृतमुपकारम् । तथा तावन्नरः शङ्कते बिभेति । कस्मात् ? अघात् पापात् । तथा तावन्नरो वहति धारयति। कम् ? मानं स्वोत्कर्षसंभावनम् । किंविशिष्टम् ? उच्चैरुन्नतम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy