SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ षष्ठोऽध्यायः । गर्द्धात्पादनलक्षणस्य लोभस्य सर्वपापमूलत्व सर्वगुणभ्रंशकत्वप्रकाशनपूर्वकं कृशीकरणमवश्यकरणीयतया मुमुक्षूणामुपदिशति - लोभमूलानि पापानीत्येतद्यैर्न प्रमाण्यते । स्वयं लोभाद्गुणभ्रंशं पश्यन्तः श्यन्तु तेपि तम् ॥ २४ ॥ श्यन्तु कृशीकुर्वन्तु । के ? तेपि अप्रमाणीकृतलोकप्रसिद्धवाक्याः । किं पुनरन्ये । कम् ? तं लोभम् । किं कुर्वन्तः ? पश्यन्तोऽनुभवन्तः । कम् ? गुणभ्रंशं गुणानां दयामैत्री साधुकारादीनां तेभ्योऽपगमम् । कस्मात् ? लोभात् । केन ? स्वयमात्मना तथा व्यासोप्याह भूमिष्ठोपि रथस्थांस्तान् पार्थः सर्वधनुर्धरान् । एकोपि पातयामास लोभः सर्वगुणानि वा ॥ ३८९ यैः किम् ? यैर्न प्रमाण्यते न प्रमाणं क्रियते । विसंवाद्यते इत्यर्थः किं तत् ? लोभमूलानि पापानीत्येतल्लोकप्रसिद्धं वाक्यम् । लोभो मूलं कारणं येषां तानि लोभमूलानि ॥ गुणलक्षशतेन समकक्षमप्यौचित्यमत्यन्तलुब्धस्य नित्यमुद्वेजनीयं स्यादित्युपदिशति गुणकोट्या तुलाकोटिं यदेकमपि टीकते । तदप्यौचित्यमेकान्तलुब्धस्य गरलायते ॥ २५ ॥ N गरलायते विषमिवात्मानमाचरति । किं तत् ? तदप्यौचित्यं दानप्रियवचनाभ्यामन्यस्य संतोषोत्पादनम् । कस्य ? एकान्तलुब्धस्य नितान्तलोभाविष्टस्य । यत्किम् ? यट्टीकते चटति । काम् ? तुलाकोटिमूर्ध्वमानान्तमुपमोत्कर्षं च । कथम् ? सह । कया ? गुणकोट्या गुणानां लक्षशतेन । किंविशिष्टमपि ? एकमपि । उक्तं च औचित्यमेकमेकत्र गुणानां राशिरेकतः । विषायते गुणग्राम औचित्यपरिवर्जितः ॥ स्वपरजीविता रोग्येन्द्रियोपभोगविषयविभेदादृष्टविधेनापि लोभेनाकुलितः, सातत्येन सर्वमकृत्यं करोतीत्युपदिशति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy