________________
३८८
अनगारधर्मामृते
कः शिखण्डी अन्तरायो भविष्यति, न कोपि । केषाम् ? तेषाम् । क ? इष्टस्थानगतौ अभिमतपदगमने । यैः किम् ? यैस्तीर्णा लङ्घिता कासौ ? मायातरङ्गिणी वञ्चनानदी । कया ? आर्जवनावा ऋजुत्वतः रण्या । किंविशिष्टा सती ? दुस्तरा लङ्घयितुमशक्या ॥
मायाया दुर्गतिक्लेशावेश दुस्सहगर्हानिबन्धनत्वमुदाहरणद्वारेण प्रणिगदति
खलुक्त्वा हृत्कर्णक्रकचमखलानां यदतुलं,
किल क्लेशं विष्णोः कुसृतिरसृजत् संसृतिसृतिः । तोsवत्थामेति स्ववचन विसंवादितगुरु, स्तपः सूनुम्लनः सपदि शृणु सयोन्तरधित ॥ २३ ॥
खलुक्त्वा नोच्यते तत्साधुभिः ? किं विशिष्टं यतः ? हृत्कर्णककचं हृदयश्रवणस्य करपत्रमित्र, विदारकत्वात् । केषाम् ? अखलानां सज्जनानाम् । यत्किम् ? यदसृजज्जनयति स्म । कासौ ? कुस्मृतिर्माया । कम् ? क्लेशमुपतापम् । किंविशिष्टम् ? अतुलमनन्यसमम् । कस्य ? विष्णोर्वासुदेवस्य । कथम् ? किल आगमे लोके वा श्रूयते । किंविशिष्टा कुसृतिः ? संसृतिसृतिः संसारमार्गः संसारस्योपायभूता । अनन्तानुबन्धिनीत्यर्थः । भोः साधो, शृणु आकर्णय स्वं तावदेतत् । अन्तरक्षित । कोसौ ? तपःसूनुः युधिष्ठिरः । केभ्यः ? सद्भ्यः साधुभिरदर्शनमात्मन इच्छति स्म । सन्तो मां मा पश्यन्त्वित्यन्तर्हितोऽभूदित्यर्थः । सद्भ्य इत्यन “येनादर्शनमिच्छति" इत्यनेन पञ्चमी । किंविशिष्टः सन् ? म्लानश्छायाहानिं गतः । कथम् ? सपदि सद्यः । किंविशिष्टो यतः ? हतोऽश्वत्थामेलि स्ववचन विसंवादित गुरुः अश्वत्थामा द्रोणाचार्यपुत्रो हस्तिविशेषश्च । हतो मारितोऽश्वत्थामा इत्यनेन स्ववचनेन निजवाक्येन विसंवादितः कुञ्जरो न नर इत्युक्त्या विप्रलम्भितो गुरुद्रोणाचार्यो येन स तथोक्तः । कथाः सर्वा अपि यथास्वं संप्रदायादधिगम्याः ॥ इत्युत्तमार्जवभावनाप्रकरणम् ।
अथ शौचरूपं धर्मं व्याचिख्या सुस्तदेकप्रत्याख्येयस्य सन्निहितविषय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org