SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ षष्ठोऽध्यायः । यः किम् ? यो वञ्चयते प्रतारयति । किं तत् ? स्वान्तं मनः । किंविशिष्टम् ? स्वमपि आत्मीयमपि । कया ? वाचा भाषया । कथम् ? अनिशं नित्यम् । तथा योऽनिशं स्वामपि वाचं वञ्चयते । कया ? चेष्टया कायव्यापारेण । यन्मनस्यस्ति तन्न वदति यच्च वक्ति तन्न कायेन व्यवहरतीतिभावः ॥ आर्जवशीलानां संप्रति दुर्लभत्वमाह चित्तमन्वेति वाग् येषां वाचमन्वेति च क्रिया । स्वपरानुग्रहपराः सन्तस्ते विरलाः कलौ ॥ २० ॥ ३८७ वर्तन्ते । के ? ते संतः साधवः । किंविशिष्टाः ? विरला द्वित्राः । क ? कलौ पञ्चमकाले । किंविशिष्टास्ते ? स्वपरानुग्रहपराः स्वपरोपकारप्रधानाः । येषां किम् ? येषां वागन्वेति अनुयाति अनुवर्तते । किं तत् ? चित्तम् । तथान्वेति । कासौ ? क्रिया चेष्टा । केषाम् ? येषाम् । काम् ? वाचं भाषाम् ॥ JAVA आर्जवशीलानां माहात्म्यमाह - आर्जवस्फूर्ज दूर्जस्काः सन्तः केपि जयन्ति ते । ये निगीर्णत्रिलोकायाः कृन्तन्ति निकृतेर्मनः ॥ २१ ॥ जयन्ति सर्वोत्कर्षेण वर्तन्ते । के ? ते केपि लोकोत्तराः सन्तः साधवः । किंविशिष्टाः ? आर्जवस्फूर्जदूर्जस्काः | आर्जवेन ऋजुभावेन स्फूर्जत् स्फुरदूर्ज उत्साहो येषां ते एवम् । ये किम् ? ये कृन्तन्ति छिन्दन्ति । किं तत् ? मनो हृदयम् । कस्याः ? निकृतेर्मायायाः । मायया जेतुमशक्या इत्यर्थः । किंविशिष्टायाः ? निगीर्णत्रिलोकाया जठरान्तनतजगत्त्रयायाः जगत्रयत्र्या इत्यर्थः ॥ आर्जव निर्जितदुर्जयमायाकषायाणां मुक्तिवर्त्मनि निष्प्रतिबन्धा प्रवृत्तिः स्यादित्युपदिशति — Jain Education International दुस्तरार्जवनावा यैस्तीर्णा मायातरङ्गिणी । इष्टस्थानगतौ तेषां कः शिखण्डी भविष्यति ॥ २२ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy