________________
३८६
अनगारधर्मामृते--
नो चेत्स्त्रीत्वनपुंसकत्वविपरीणामप्रबन्धार्पितं, ताच्छील्यं बहु धातृकेलिकृतपुंभावोप्यभिव्यक्ष्यति॥१८॥ उज्झतु परित्यजतु । कोसौ ? सोपि । काम् ? मायोरगी वञ्चनाभुजङ्गीत् । किंविशिष्टाम् ? प्रेत्य परलोके दुरत्ययात्ययमयीं दुरतिकमापायबहुलाम् । यः किम् ? य ईष्टे प्रभवति शक्नोति । किं कर्तुम् ? सोढुं सहितुम् । काम् ? कपटीत्यकीर्तिभुजगीम् अयं दांभिक इत्ययशः सर्पिणीम् । किंविशिष्टाम् ? श्रवोन्तश्चरी कर्णान्तश्चारिणीम् । नोचेन्मायोरगी यदि नोज्झिष्यति तदाऽभिव्यङ्खयति अभिव्यक्तं करिष्यत्यसौ मायावी । किं तत् ? ताच्छील्यं स्त्रीनपुंसकस्वभावतां भावस्त्रीत्वं भावनपुंसकत्वं चेत्यर्थः । कथं कृत्वा ? बहु प्रभूतम् । तल्लिङ्गानि यथा
श्रोणिमार्दवत्रस्तत्वमुग्धत्वक्लीबतास्तनाः । पुंस्कामेन समं सप्त लिङ्गानि स्त्रैणसूचने ॥ खरत्वमेहनस्ताब्ध्यशौण्डीर्यश्मश्रुधृष्टताः। स्त्रीकामेन समं सप्त लिङ्गानि पौनवेदने । यानि स्त्रीपुंसलिङ्गानि पूर्वाणीति चतुर्दश । सर्वाणि तानि मिश्राणि षण्ढभावनिवेदने ॥ अन मानसा भावाभावस्य शारीराश्च द्रव्यस्य सूचका इति विभागः । किंविशिष्टं ताच्छील्यम् ? स्त्रीत्वेत्यादि । स्त्रीत्वनपुंसकत्वाभ्यां स्त्रीणषंढ त्वाभ्यां विपरीणामो विविधं परिणमनम् । तस्य प्रबन्धः संतानः । तेनार्पित संयोजितम् । किंविशिष्टोपि सन् ? धातृकेलिकृतपुंभावोपि । धात्र पुंस्त्वनिर्मायककर्मणा केलिना क्रीडयेव कृतो निर्मितः पुंभावः पुल्लिङ्गपर्यायो यस्य स एवम् ॥ मायाविनो लोकेऽत्यन्तमविश्वास्यतां प्रकाशयतियो वाचा स्वमपि स्वान्तं वाचं वञ्चयतेऽनिशम् । चेष्टया च स विश्वास्यो मायावी कस्य धीमतः ॥ १९ ॥
स मायावी वञ्चकः कस्य धीमतः प्रेक्षापूर्वकारिणो विश्वास्य विश्वसनीयः स्यात् । केनापि धीमता तस्य विश्रम्भो न क्रियते इत्यर्थः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org