SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ षष्ठोऽध्यायः । क्रोधादीनसतोपि भासयति या सद्वत् सतोप्यर्थतो,sesोषधियं गुणेष्वपि गुणश्रद्धां च दोषेष्वपि । या सूते सुधियोपि विभ्रमयते संवृण्वती यात्यणू,न्यप्यभ्यूहपदानि सा विजयते माया जगद्व्यापिनी ॥ १७॥ विजयते सर्वोत्कर्षेण वर्तते । कोसौ ? सा माया वञ्चना । किंविशिष्टा यतः ? जगद्व्यापिनी विश्वव्यापनशीला । सा का ? या भासयति प्रतीतिमानयति । कान् ? क्रोधादीन् क्रोधमानलोभानू । किंवत् ? सद्वद् उद्भूतानिव । किंविशिष्टानपि ? असतोपि अनुद्भूतानपि । कस्मात् ? अर्थतः प्रयोजनमाश्रित्य । तथा या भासयति क्रोधादीन् । किंवत् ? असद्वत् अनुद्भूतानिव । कस्मात् ? अर्थतः । किंविशिष्टानपि ? सतोप्युद्भूतानपि । उक्तं च भेयं मायामहागर्तान्मिथ्याघनतमोमयात् । यस्मिँल्लीना न लक्ष्यन्ते क्रोधादिविषमाहयः ॥ तथा या सूते जनयति । काम् ? दोषधियं दोषा इति बुद्धिम् । केषु ? गुणेष्वपि । तथा या सूते । काम् ? गुणश्रद्धां गुणा इति प्रतीतिम् । केषु ? दोषेष्वपि । तथा या विभ्रमयते विपर्ययज्ञानं नयति । कान् ? सुधियोपि विद्या विनीतमतीनपि । किं कुर्वती ? संवृण्वती छादयन्ती । कानि ? अभ्यूहपदानि वितर्कस्थानानि । किंविशिष्टान्यपि ? अत्यशून्यपि अतीव सूक्ष्मान्यपि । उक्तं च बहिः सर्वाकारप्रवणरमणीयं व्यवहरन्, पराभ्यूहस्थानान्यपि तनुतराणि स्थगयति । जनं विद्वानेवं सकलमांतसंधाय कपटै, - स्तटस्थः स्वानर्थान् घटयति च मौनं स भजते ॥ इहामुत्र च मायायाः कृच्छ्रक निबन्धनत्वमवबोधयतियः सोढुं कपटीत्यकीर्तिभुजगीमीष्टे श्रवन्तश्वरीं, सोपि प्रेच्य दुरत्यययात्ययमयीं मायोरगी मुज्झतु । अन० ध० २५ ३८५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy