________________
३८४
अनगारधर्मामृते
aniaminawimminema
तत्सौनन्दमिवादिराट् परमरं मानग्रहान्मोचयेत्, तन्वन्मादेवमाप्नुयात् स्वयमिमं चोच्छिद्य तद्वच्छिवम्१६॥ तेने वितस्तार । कोसौ ? मानोऽहंकारः । कम् ? अपमानं महत्त्व. हानिम् । कमिव ? अवर्णमिव अयशः शोभाभ्रंशं च यथा । अपमानमयशः शोभाशं च करोति स्मेत्यर्थः । कस्य ? अर्ककीतेर्भरतेश्वरनन्दनस्य । कथम् ? अभितः समन्तात् । कथम् ? तथा तेनार्षप्रसिद्धेन प्रकारेण । एतदुत्तरत्रापि संबध्यते । तथा अचीकर मणिकेतुनाम्ना देवेन कारयति स। कोसौ ? मानः । कान् ? सगरजान् सगरचक्रवर्तिपुत्रान् । कति ? सहस्त्राणि । कियन्ति ? षष्टिं षष्टिसंख्यानि । पद्मे सहस्रपत्रव्य. पदेशवत्प्रायिकमेतत् । तेन भीमभगीरथाभ्यां विनापि भस्मीकरणे षष्टि. सहस्रसंख्यावचनं न विरुध्यते । किंविशिष्टान् तान् । आर्षप्रसिद्धान् । एतेन सगरात्साक्षादसाक्षाच्च जाताः सगरजा इति पुत्रवत् पौत्राणामप्यार्षाविरोधेन ग्रहणं लक्षयति । कामचीकरत् ? मायाभूतिमऽवास्तवभस्म । कथम् ? तथा तेनार्षप्रसिद्धेन प्रकारेण । यत एवं तत् तस्मान्मोचये. द्वियोजयेच्छोटयेत् । कोसौ ? साधुः । कम् ? परं कुतश्विन्निमित्तादारूढाभिमानं यं कंचित् । कस्मात् ? मानग्रहादहंकारभूतावेशात् । कथम् ? अरं क्षिप्रम् । क इव ? आदिराडिव भरतराजो यथा। कम् ? सौनन्द सुनन्दाया अपत्यं बाहुबलिनम् । तथाप्नुयादश्नुवीत साधुः । किं तत् ? शिवमभ्युदयमोक्षौ । किंवत् ? तद्वद् भरतराजवत् । किं कृत्वा ? उच्छिद्य उन्मूल्य । कम् ? इमं मानग्रहम् । किं कुर्वन् ? तन्वन् भावयन् । किं तत् ? मार्दवम् । केन ? स्वयमात्मना । चः समुच्चये । तथा चोक्तम्
"मार्दवोपेतं गुरवोनुगृह्णन्ति । साधवोपि साधु मन्यन्ते । ततश्च सम्यग्ज्ञानादीनां पात्रीभवति । अतश्च स्वर्गापवर्गफलायाप्तिः"॥ इत्युत्तममार्दवभावनाप्रकरणम् ।
अथार्जवस्वभावं धर्म व्याकर्तुकामस्तदेकनिराकार्यां निकृतिमनुभावतोऽनुबदलाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org