________________
षष्ठोऽध्यायः ।
प्रवरगुरुगीस्तया । किं कर्तुम् ? छेत्तुमपनेतुम्। किं तत् ? दौर्गत्यदुःखम् । दौर्गत्यं नरकादिगतिभावो दारिद्यं च दौर्गत्यस्य दुःखमाबाधा दौर्गत्यदुःखम् । पुनः किं कर्तुम् ? क्षेप्तुं प्रेरयितुम् । किं तत् ? कर्मारिचक्रं ज्ञानावर• णादिकर्मशत्रुसंघातम् । कैः ? सद्वतास्त्रैर्निरतीचारव्रतशस्त्रैः । किविशिष्टैः ? शितैस्तीक्ष्णैः कर्मारिखण्डनक्षमैः । किमिव ? सुहृदमिव । अयमों, यथा कश्चिद्विजिगीषुर्दारिद्र्यदुःखं निरसितुं मन्न्यादिवाचा संग्रामविषये निशातशस्त्रैः प्रहर्तुमुधुक्तं प्रतिपक्षसैन्यं क्षेप्तुकामो मित्रमुत्तेजयति तथा साधुर्दुर्गतिदुःखं निराकर्तुकामः सद्गुरुवाचा प्रतिज्ञायां कर्मक्षपणक्षमनिर्मलाहिंसादिव्रतैः कर्मारिचक्रं क्षेप्तुकामोऽभिमानमुत्तेजयतु अधस्तनभूमि कायामभिमानस्य मुमुक्षोविधेयतयोपदेशात् "त्वया शुचिकृतं येनाभिमानामृतम्" इत्यभिधानात् ॥ ___ मार्दवभावनाभिभूतस्यापि गर्वस्य सर्वथोच्छेदः शुक्लध्यानप्रवृत्त्यैव स्यादि. त्युपदिशति
मार्दवाशनिनिहूनपक्षो मायाक्षितिं गतः । योगाम्बुनैव भेद्योन्तर्वहता गर्वपर्वतः ॥१५॥ भेद्यो भेत्तुं शक्यः । कोसौ ? गर्वपर्वतोऽहंकारगिरिः । केन ? योगाम्बुनैव शुक्लध्यानजलेनैव । किं कुर्वता? वहता संतत्या वर्तमानेन । क ? अन्तरध्यात्मम् । किंविशिष्टः गतः । काम् ? मायाक्षिति तृतीयसंज्वलनकषायभूतलम् । किंविशिष्टः सन् ? मार्दवाशनिनिलूनपक्षः। अयमों, यथा शक्रमुक्तवज्रनिःशेषच्छिन्नपतत्रो भूतलं गतः शैलो मध्ये प्रवहता जलेनैव विदारयितुं शक्येन तथा मार्दवभावनानिरस्तशक्तिविशेषात्मकपक्षः संज्वलनमायां पतितो मानकषायः पृथक्त्ववितर्कवीचाराख्य. शुक्लध्यानेनैवात्मनि संतत्या वर्तमानेन निःशेषयितुं पार्येत । क्षपकश्रेण्यां हि मायासंज्वलने प्रक्षिप्य शुक्लध्यानविशेषेण मानः किलोन्मूल्यते ॥
मानान्महतामपि महतीं खार्थक्षतिमालक्षयंस्तदुच्छेदाय मार्दवभावनां मुमुक्षोरवश्यकर्तव्यतयोपदिशति
मानोऽवर्णमिवापमानमभितस्तेनेऽर्ककीर्तेस्तथा, मायाभूतिमचीकरत्सगरजान् षष्टिं सहस्राणि तान् । . ..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org