________________
षष्ठोऽध्यायः।
३८१
कुधीर्येनादत्ते किमपि तदघं यद्रसवशा,चिरं भुङ्क्ते नीचैर्गतिजमपमानज्वरभरम् ॥ ११ ॥
कुधीः कुमतिः पुमानभिनिविशतेऽभिमुखं नियतं विशति । निर्बन्धं करोतीत्यर्थः । किं तत् ? अहंकृतितमः। अहंकृतिरहंकारस्तम इव, स्वपरस्वरूपप्रच्छादकत्वात् । कथम् ? इति । किमिति ? क कस्मिन्निष्टेऽनिष्टे वार्थे । नास्मि भवाम्यहम् । किंविशिष्टः ? स्वतन्त्रः आत्मप्रधानः। कर्तेति यावत् । क सति विधौ दैवे । किं कुर्वति ? विलसति विजृम्भमाणे । क ? अस्मिन् प्रतीयमाने जगद्वैचित्र्ये । जगतः स्थावरजङ्गमात्मनो लोकस्य वैचित्र्यं भेदप्रपञ्चः तस्मिन् । कथं विलसति ? कामं यथेष्टम् । कथम् ? अनिशं शश्वत् । येन किम् ? येनाहंकृतितमोभिनिविशेन आदत्ते स्वीकरोति । कोसौ ? कुधीः । किं तत् । तत् किमप्यनिर्वचनीयमघं पापम् । यद्रस. वशायद्विपाकपारतन्त्र्यात् कुधी तेऽनुभवति । कम् ? अपमानज्वरभरम् । अपमानो महत्त्वहानिर्वर इब, तीव्रसंतापहेतुत्वात् । तस्य भर उद्रेकः । किंविशिष्टम् ? नीचैर्गतिजं नीचैर्गतिषु निगोदादिपर्यायेषु जातम् । उक्तं च
जातिरूपकुलैश्वर्यशीलज्ञानतपोवलैः। कुर्वाणोहंकात नीचं गोत्रं बध्नाति मानवः ॥ तत्तादृगपायप्रायमानोपमर्दनचणं मार्दवमाशास्तेभद्रं मार्दववज्राय येन निलूनपक्षतिः । पुनः करोति मानादिर्नोत्थानाय मनोरथम् ॥ १२ ॥ __ भद्रं कुशलं भूयात् । कसै ? मार्दववज्राय । मार्दवं जात्याद्यतिशयव. तोपि सतस्तत्कृतमदावेशाभावात् परप्रयुक्तपरिभवनिमित्ताभिमानाभावान्माननिर्हरणम् । येन किम् ? येन निलूनपक्षतिनिश्शेषच्छिन्नपक्षमूलो मानाद्रि रभिमानपर्वतो न करोति । कम् ? मनोरथमभिलाषम् । कसै ? उत्था. नाय उद्भवितुमुत्पतितुं चेत्यर्थः । कथम् ? पुनर्भूयः । पक्षतिः पक्षमूलम् । तच्च मानपक्षे शक्तिविशेषः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org