________________
३८०
अनगारधर्मामृते
पुनरन्येन । कीदृशं भवति ? म्लानिश्छायाहानिः । कस्य ? मानस्याभिमानस्य । यत एवं तत् तस्माचरेयं प्रवर्तेयमहम् । क ? ध्येये सरणीये वस्तुनि । अशक्यानुष्ठाने इत्यर्थः । कस्य ? विधेरपि दैवस्यापि ॥ अहंकारादनर्थपरम्परां कथयति
गर्वप्रत्यग्नगकवलिते विश्वदीपेविवेक,त्वष्टर्युच्चैः स्फुरितदुरितं दोषमन्देहवृन्दैः । सत्रोद्वृत्ते तमसि हतग् जन्तुराप्तेषु भूयो, भूयोऽभ्याजत्वपि सजति ही खैरमुन्मार्ग एव ॥१०॥
ही कष्टं, सजति आसक्तो भवति । कोसौ ? जन्तुः प्राणी। क ? उन्मार्ग एव । पुरुषार्थमुत्क्रान्त्रो मार्ग उन्मार्गस्तस्मिन् । पुरुषार्थविरोधिन्युपाये इत्यर्थः । कथम् ? स्वैरं स्वच्छन्दम् ध्वान्तच्छादितदृष्टिपक्षे तु स्वेनात्मना, न परोपदेशेन, ईरे गमने मुत् प्रीतिर्यस्यासौ स्वैरमुत् काकुव्याख्यायां मार्गे एव सजति, न सजति । किं तर्हि ? अमार्गेषि लगतीत्यर्थः । केषु सत्सु ? आप्तेषु गुर्वादिषु । किं कुर्वत्स्वपि ? अ भ्याजत्स्वपि निवारयत्स्वपि । कथम् ? भूयो भूयः पुनः पुनः किंविशिष्टः सन् ? हतग हतदृष्टिः । क सति ? तमसि मोहेऽन्ध कारे च । किंविशिष्टे ? उद्धृत्ते उच्छृङ्खलप्रवृत्ते । कथम् ? सत्रा सह कैः ? दोषमन्देहवृन्दैः। दोषा रागद्वेषादयः। त एव मन्देहा राक्षस विशेषाः । तेषां वृन्दानि संघाताः । कथं कृत्वा ? उच्चैः स्फुरितदुरितम् उच्चैः स्फुरितानि नितान्तविजृम्भितानि दुरितानि पापकर्माणि चौर्यपारदारि कत्वादीनि यत्र तदेवम् । क सति ? विवेकत्वष्टरि कृत्त्याकृत्यविभाग: ज्ञानादित्ये । किंविशिष्टे ? विश्वदीपे जगत्प्रदीपे । किंविशिष्टे सति ? गर्व प्रत्यग्नगकवलिते । प्रत्यग्नगोऽस्तशैलः । गर्व एव प्रत्यग्नगः । तेन कवलिते ग्रस्ते । तिरस्कृते इत्यर्थः ॥
अहंकारजनितदुष्कृतविपनिममत्युग्रमपमानदुःखमाख्यातिजगद्वैचित्र्यसिन्विलसति विधौ काममनिशं, खतन्त्रो न कास्मीत्यभिनिविशतेऽहंकृतितमः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org