________________
षष्ठोऽध्यायः ।
पुरीं तद्द्वारावतीम् । कया ? कुधा क्रोधेन । तपोलब्धिविशेषसमुत्थवह्निनेत्यर्थः । तुर्विशेषे । यत् एवं तत् तस्मादजतु क्षिपतु शमयतु मुमुक्षुः । कम् ? क्रोधम् । कथं कृत्वा ? ह्यरिरिति हि स्फुटमरिः शत्रुः पुंसां क्रोध इति । वसति ? अरौ शत्रौ अपकर्तरि । किं कुर्वति ? विराराधत्यपि अत्यर्थं पुन: पुनर्वा विराधत्यपकुर्वत्यपि सति । किंवत् ? पार्श्ववत् पार्श्वदेवजीवेन तुल्यम् । स एव हि क्षमापराणां धुरीणः । एतत्कथास्तिस्रोपि संप्रदायाद्वेद्याः ॥ इत्युत्तमक्षमाभावनाप्रकरणम् ।
एवमुत्तमक्षमालक्षणं धर्मं निरूप्येदानीं तमुत्तममार्दवलक्षणं लक्षयितुं मानं धिकुर्वन्नाह -
३७९
हृत्सिन्धुर्विधिशिल्पिकल्पितकुलाद्युत्कर्षहर्षोर्मिभिः, किर्मीरः क्रियतां चिराय सुकृतां ग्लानिस्तु पुंमानिनाम् । मानस्यात्मभुवापि कुत्रचिदपि खोत्कर्षसंभावनं, तद्ध्येयेपि विधेश्वरेयमिति धिग्मानं पुमुत्प्लावनम् ॥ ९ ॥
1
धिमानमहंकारम्। तिरस्कुर्मो वयमित्यर्थः । किं विशिष्टं यतः ? पुमुत्लाविनम् । पुमांसं पुरुषमुत्लावयति माहात्म्याद अंशयतीत्येवंशीलम् । कथम् ? इति । किमिति ? क्रियतां विधीयताम् । कोसौ । हृत्सिन्धुः । हृद् हृदयं सिन्धुः समुद्र इव तरङ्गाणामिव कुलाद्युत्कर्षहर्षविवर्तानामभीक्ष्णमावर्तनात् । केषाम् ? सुकृतां विपरीतलक्षणयाऽकृतपुण्यानाम् । किंविशिष्टः ? किर्मीरश्रित्रः । कैः ? विधीत्यादि । विधिदैवम् । विधिरेव शिल्पी, कर्म निर्माणकुशलसाधर्म्यात् । विधिशिल्पिना कल्पिता निर्मिता विधिशिल्पिकल्पिताः ते च ते कुलाद्युत्कर्षहर्षोर्मयश्च ते तथोक्ताः । कुलादीनां वंशरूपतपोविद्येश्वर्यादीनामुत्कर्षा अतिरेकाः कुलाद्युत्कर्षाः । तत्कृता हर्षाः कुलाद्युत्कर्षद्वारेण प्रवृत्ताः प्रमोदाः ते ऊर्मयस्त - रङ्गा इवानियतोत्थानत्वात् । कथम् ? चिराय यावज्जीवम् । पुंमानिनां पुमांसमिवात्मानं मन्यमानानां पुनर्भवति । किं तत् ? स्वोत्कर्ष संभावनमऽहमस्मिन्नुत्कृष्ट इत्यात्मनोऽधिकतोत्प्रेक्षणम् । क ? कुत्रचिदपि कस्मिन्नपि विषये । केन ? आत्मभुवापि स्वजातेनापि पुत्रेण, किं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org