________________
३७८
अनगारधर्मामृते
वाक्याथैः सह संबध्यते । एष मत्पापपाकपरतन्त्रः पुमान् युक्तमुचितं शपत्याक्रोशति माम् । कुतो हेतोः ? इति यतोस्ति विद्यते । कोसौ? दोषो नग्नत्वाशुचित्वामङ्गलत्वादिः । कस्य ? मे मम । एतच्चात्मनि दोषसद्भावानुचिन्तनम् । वा अथवा एष मां शपति । कथम् ? विना । कम् ? तं दोषम् । किंविशिष्टो यतः ? अज्ञो बालः । ईदृशा हि बालका भवन्ति । एतत्पुनर्दोषाभावचिन्तनम् । अथवा दिष्ट्या कल्याणं वर्धापनकं मे, यस्मादेष मां शपति । क ? परोक्षे इन्द्रियाणामविषये स्थितं, न साक्षात् प्रत्यक्षम् । अथ अथवा एष मां साक्षात्प्रत्यक्षं शपति, न ताडये. चर्मयष्यादिना न हन्यान्माम् । वा अथवा एष मां ताडयेद्, नासून् मुष्णाति न प्राणान्हरति मम । तान् वा प्राणान् हरत्येष मम, न धर्म हरत्येष मम । किंविशिष्टम् ? सुगतिदं स्वर्गापवर्गप्रदम् ॥
क्रोधस्य दुष्कीर्तिदारुणदुःखहेतुत्वं दृष्टान्तेषु स्पष्टयन् दूरतस्त्याज्यत्वमुपदिशति
नाद्याप्यन्त्यमनोः स्वपित्यवरजामर्षार्जितं दुर्यशः, प्रादोदोन्मरुभूतिमत्र कमठे वान्तं सकृत् क्रुद्विषम् । दग्ध्वा दुर्गतिमाप यादवपुरी दीपायनस्तु क्रुधा, तत्क्रोधं ह्यरिरित्यजत्वपि विराराधत्यरौ पार्श्ववत् ॥ ८॥ न स्वपिति न शेते । न स्वव्यापारादुपरमतीत्यर्थः । किं तत् ? दुर्यशो दुर्वर्णः । अकीर्तिरित्यर्थः। कस्य ? अन्त्यमनोभरतचक्रिणः । किंविशिष्टम् ? अवरजामर्षार्जितम् । अवरजेऽनुजे बाहुबलिकुमारेऽमर्षः क्रोधोऽवरजामर्षः । तेनार्जितमात्मसात्कृतम् । क ? अद्यापि इदानीमपि । इयत्यपि काले गते इत्यर्थः । तथा प्रादोदोत् प्रकर्षेण पुनः पुनरुपतपतिम । किं तत् ? क्रुद्विषं क्रोधगरलम् । कम् ? मरुभूतिं मरुभूतिना. मानं पूर्वभवे पार्श्वदेवजीवम् । क ? अत्र लोके मर्त्यलोके । किं विशिष्टं सत् ? वान्तमुद्गीर्णम् । क ? कमठे कमठाख्ये स्वज्येष्ठभ्रातरि । कथम् ? सकृदेकवारम् । तथा द्वीपायनो नाम तपस्वी आप प्राप । काम् ? दुर्गति नरकगतिम् । किं कृत्वा ? दग्ध्वा भस्मीकृत्य । काम् ? यादव.
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org